________________
मलय
।। ५५ ।।
B
****
वृक्षाग्रे भूतलेऽथवा । पस्पर्शेति धिया रात्रि - तमः स्तोमे करेण सः ॥८४॥ शिखरं चूतवृक्षस्य ज्ञात्वा पक्क फलान्वितं । शाखा भारक्षमा नैषा हृदीति तेन चिंतितं ॥ ८५ ॥ क्षणेनोत्तीर्य शिखरा-न्मूलस्कंध - मुपागतः । कुमारश्चिंतयामास निशामध्ये निशातधीः ॥ ८६ ॥
રક્ષાબંધ
अहो कथमवस्थां कां संप्राप्तोऽपहृतस्तया काहं संप्रति तं हारं कथं दृक्ष्यामि लोचनैः || ८७ ॥ प्रतिज्ञां पूरयिष्यामि कथमंत्रापुरः कृतां । असंप्राप्ते पुनर्द्वारे हा माता जीविता कथं ॥८८॥ देवीमृतेः कथं तातः प्राणान् ध सहिष्यते । तन्मे संप्रति वंशस्य संहारः समुपस्थितः ॥ ८९ ॥ इति ध्यायंस्तरुस्कंधे तस्थौ यावन्नृपात्मजः । तावच्छुभाव मूलेऽस्य गाढं भूघर्षणारवं ।। ९० ।। सावधानदृशापश्य-कुमारो मूलसन्मुखं । आगच्छंतमजगर-मर्द्धग्रस्तांगिनं गुरुं ॥ ९१ ॥ कुमारश्चिंतयामास स्कंधेनास्फाल नेच्छया । क्रूरः कवलितप्राणी जीवः कोऽपि समेत्ययं ॥ ९२ ॥ दीयते चेदजगर - ग्रस्तस्यैतस्य देहिनः । जीवितं तन्ममाप्यत्रा - गमनं सफलं भवेत् ॥ ९३ ॥ उत्ततार तरुस्कंधा - दवलंव्याथ साहसं । करुणापूर्णहृदयः प्रच्छन्नो निभृतक्रमः ॥ ९४ ॥ यावत्सोऽजगरो वेष्टं समं मूलेन
पादरहीत शास.
66919
चरित्रं
चूत
॥ ५५ ॥