________________
मलय
॥ ५४ ॥
1971901000108
तमारुह्य करं क्षणात् । उभाभ्यां निजपाणिभ्यां दृढं जग्राह राजसूः ॥ ७३ ॥ ततो निःसृत्य भवनाद्वेगाड्योम्न्युद्ययौ करः । तत्र स्थितः कुमारोऽपि सर्ववीरशिरोमणिः ॥ ७४ ॥ कुमारे निर्भये तत्र व्योममार्गेण गच्छति । चकंपे स करः कामं वातोद्धूत इव ध्वजः ॥ ७५ ॥ करेणाच्छोटितोऽप्येष गाढं चक्रे करग्रहं । निर्विण्णः स ततो हस्तः समुत्प्लुत्य निपत्य च ॥ ७६॥
इतश्च प्रकटीभूतां पुरो दृष्ट्वा सुरांगनां । कुमारश्चिंतयामास सैंवैषा कापि देवता ॥ ७७ ॥ तदेषा मां रुषा वापि गह्वरे क्षेप्स्यति ध्रुवं । इति मत्वा कुमारो द्राग् वज्रमुष्टया जघान तां ॥७८॥ आरटंती ततो दीन - वदना करुणस्वरं । मुहुर्मुहुर्वदंतीति मुंच मुंच कृपां कुरु ॥ ७९ ॥ मुक्ता करात्कुमारेण कारुण्यादाशु सा सुरी । तथा नष्टा यथा तस्या यांत्या मार्गोऽपि नेक्षितः ॥ ८० ॥ युग्मं ॥ निराधारः कुमारोऽथ पपात सहसांबरात् । फलभारातिनम्रस्य चूतवृक्षस्य मूर्द्धनि || ८१ ॥ अनुभूय क्षणं मूर्छा मीलिताक्षो नृपात्मजः । वनवातेन शीतेन पुनः प्राप स चेतनां ॥ ८२ ॥ सहकारलताधारपातादल्पव्यथान्वितः । कुमारश्चिंतयामास प्रदेशेऽहं क हाऽपतं ॥ ८३ ॥ शून्ये वसति वा शैले
+ opan
चरित्रं
॥ ५४