________________
मलय
॥५२॥
सात-सेना
तातादेशेन गत्वाहं परिणेष्यामि तत्र तां । कृतार्थश्च भविष्यामि कुमारानवमन्य तान् ॥ ५१ ॥ इति हर्षाकुले तस्मिन् कुमारे प्रक्षिपन दृशं । राजा जगाद हे वत्सगच्छ त्वं द्राक् स्वयंवरं ॥ ५२ ॥ निश्ययैव प्रयाहि त्वं रयोदामबलान्वितः । मान्योऽस्माकं यतो वीर-धवलोऽसौ महान्नृपः ॥ ५३ ॥ संयोज्याथ करौ शीर्ष कुमारो नामयन्निजं । उवाचेति प्रमाणं मे तातादेशः प्रमोदकृत् ॥ ५४ ॥ | सज्जीभवति सैन्येऽथ गमनाय नृपाज्ञया । राज्ञोचे वत्स तं हारं गृहाण सह सुंदरं ॥५५॥ कुमारण ततोऽभाणि न जाने तात कारणं । अलक्षः कोऽपि निद्राण-मुपद्रवति मां निशि ॥५६॥ कदाचिद्धरते वस्त्रं शस्त्रं चाभरणं तथा । कदाचिद्रौद्रशब्देन सोऽट्टहासं च मुंचति ॥ ५७ ॥ लक्ष्मीपुंजो मया हारो गृहीतो मातृकंठतः । सुप्तस्याद्य हृतस्तेन रजन्यां मम पार्श्वतः ।। ५८ ॥ ज्ञात्वा तं तु | गतं हारं देवी दुःखं तथाकरोत् । यथाहं मातृदुःखेन भृशं चिंताकुलोऽभवं ॥ ५९ ॥
प्रतिज्ञाथ कृतास्तीति देव ! देव्याः पुरो मया ॥ पंचाहीतर्न चेद्धारं ददेऽग्निं साधये तदा |॥ ६० ॥ देव्यापि भणितं देवतं हारं न लभे यदि । मर्त्तव्यं तन्मयो नूनं संदेहो नात्र विद्यते
॥५२॥