________________
*#*#*#*-*-*-*
तन्निमित्तं स्वयंवरे । सर्वत्र प्रहिता दूता आह्वातुं नृपनंदनान् ॥ ४० ॥ युष्मत्पावें त्वहं देव प्रेषि- | तोऽस्मन्महीभुजा । महाबलं कुमारं तमाह्वातुं रूपदर्पकं ॥ ४१ ॥ अथास्ति ज्येष्टमासस्य कृष्णैकादशी तिथिः । आगामिन्यां चतुर्दश्यां भवितैष स्वयंवरः॥ ४२ ॥ प्रेषितस्य ममाभूवन वासरा बहवः परं । मंदीभूतोंतरालेऽहं विलंबस्तेन हेतुना ॥४३॥ अतः प्रसीद देवाशु कुमारं प्रेषयाधुना। विलंबः सहते नैव यतो लग्नं समीपगं ॥ ४४ ॥ हृष्टचित्तस्ततो राजा सर्व स्वीकृत्य तद्वचः । वस्त्रादिभिश्च सत्कृत्य दूतं प्रेषितवान् पुनः ॥४५॥ कुमारोऽपि सभासीनः सर्वमाकर्ण्य तद्वचः । प्रमोदपूर्णहृदयश्चिंतयामासिवानिति ॥ ४६॥ मया स्वकीयचिते च यध्यातं जातमेव तत् । इतः क्षुधासमुल्लास इतः | | स्थालेऽपतत्सिती ॥ ४७ ॥ सामर्थेनापि चार्थेन यत्कार्य संशये स्थितं । तदहो दैवयोगेन मुष्टिमध्ये समागतं ॥ ४८ ॥ चिंताभारः कियानेष मूलाज्झटिति निष्टितः । प्रणष्टो दुःखसंचारः पूर्ण तोषेण मानसं ॥ ४९॥
सिद्धं विंशोपकान कार्य यावदेकोनविंशतिं । कटरे पुण्यमाहात्म्य-मनुकूलो ध्रुवं विधिः ॥५०॥
-*-*
-
*