________________
मलय॥५०॥
0019101100
युग्मं ॥ चिंतयन् परिणेतुं तां स उपायाननेकशः । पृथ्वीस्थानपुरं प्राप--दविलंब प्रयाणकैः २९ प्रणम्य चरणौ हार-मर्पयामास तं पितुः । मृषोत्तरं च चक्रे स कुमारः सारविक्रमः ॥ ३० चंद्रा वतीशपुत्रेण संतुष्टेनैष सौहृदात् । लक्ष्मीपुंजाभिधानो मे हारः सारः समर्पितः ॥ ३१ ॥ राजा जगाद हे वत्सा- तुच्छा कापि कला तव । मैत्री यदीदृशी जज्ञे तेन स्तोकदिनैरपि ॥ ३२ ॥ प्रशं सन्निति तं पुत्रं तं हारं दिव्यमादरात् । पद्मावत्यै कुमारस्य जनन्यै व्यतरन्नृपः ॥ ३३ ॥ प्रशंसंती निजं पुत्रं देव्यपि हृष्टमानसा । निजकंठे निचिक्षेप तं हारं कांतिभासुरं ॥ ३४ ॥ कुमारोऽथ निजे चित्ते दध्यावेवं दिवानिशं । पितृदत्तां कथं कन्यां परिणेष्यामि तामहं ॥ ३५ ॥ सुदुर्वहा पुरस्तस्याः कृता संधा मया तदा । निर्वाह्या कथमेषा तु रहस्यं कस्य कथ्यते ।। ३६ ।।
प्रतिज्ञा
इति चिंतापरे तत्र समागाद्भूतपूरुषः । चंद्रावतीनरेंद्रेण प्रेषितः प्रीतिशालिना ॥३७॥ प्रणम्य भूपतिं दूतः प्रतीहारनिवेदितः । कार्य निवेदयामास क्षेमवार्त्तापुरस्सरं ॥ ३८ ॥ अस्माकं स्वामिनो वीर - धवलस्यास्ति भूपतेः । कुमारी मारभार्याभा नाम्ना मलयसुंदरी ॥ ३९ ॥ प्रारब्धे देव ! भूपेन
चरित्रं
॥ ५० ॥