________________
मलय
चरित्रं
४९
॥ १७ ॥ हाहाऽहं निंदिता सर्वे-विख्याता कूटभाषिणी । तदेतस्याः कुमार्या मे लघुताभवदीदृशी ॥ १८ ॥ वैरिणीवाथ सेयं वै नूनं मलयसुंदरी । गच्छंती भाषमाणापि ममोद्वेगं करोत्यलं ॥ १९॥ कदा कथं महानर्थे पतिष्यति मरिष्यति । कदा चैषेति कनक-वत्यस्थाचिंतयंत्यलं ॥२०॥ मुखादाकृष्य गुटिकां कृत्वा रूपं निजं ततः । कुमारः स्माह तन्वंगि गुटिकावैभवं ह्यदः ॥ २१ ॥ तिष्टतोऽत्र पुनः किंचिद्विरूपं मे भविष्यति । द्रुतं तद्याम्यहं त्वं तु तिष्टेः स्वस्थात्र सुंदरि॥ २२ ॥ आवयोरनुकू
लोऽस्ति विधिः संप्रति वेदम्यहं । संयोगो दुर्लभो यस्मा-देषोऽभूदवितर्कितः ॥ २३ ॥ करिष्यति |स एवेदं कार्या चिंता त्वया न हि । श्लोकोऽयं सर्वदा ध्येय-श्चित्तस्वास्थ्यविधायकः ॥२४ ।। विधत्ते यद्विधिस्तत्स्या-न्न स्याद् हृदयचिंतितं । एवमेवोत्सुकं चित्त-मुपायांश्चिंतयेबहून् ॥ २५ ॥
टंकोत्कीर्ण इव श्लोको लग्नस्तस्या अयं हृदि । स्वं शिरो धुन्वती तस्थौ तत एषा मृगेक्षणा | ॥२६॥ शिवास्ते संतु पंथानः कुमारेत्युक्तिपूर्वकं । पश्यंत्यां दीर्घया दृष्टया कुमार्यामनिमेषया ॥२७॥ ततो निःमृत्य केनापि न ज्ञातः स महाबलः। यथायातस्तथा यातः स्वजनानां च संगतः ॥२८॥
॥ ४९ ॥