________________
॥४८॥
241-
सशत
|ताया मुखांतरे । रूपं चंपकमालाया दृष्टाया राजसन्निधौ ॥ ७॥ कृत्वा कुमार आसीनः कुमार्याः सन्निधौ क्षणात् । तथाभूतं तमालोक्य कुमारी च विसिस्मिये ॥८॥ युग्मं ॥
भक्त्वा तालकमुदघाट्य द्वारं यावत्समीक्षितं दृष्टा मातृयुता ताव-द्राज्ञा मलयसुंदरी॥९॥ | राज्ञा कनकवत्यास्या-ऽभिमुखं वीक्ष्य भाषितं । प्रिये पश्य स्वयं ताव-त्वया किं कथितं मम ॥१०॥ | यावदैवत मध्ये सा कुमारी मातृसंयुतां । तावद्विलोक्य वेगेन विलक्षवदनाऽभवत् ॥११॥ स्मयमानः
कुमारोऽथ जगादागच्छ हे स्वसः। राजा किं कुपितः कस्मै किं मह्यमपि तद्वद ॥ १२ ॥ जल्पंतीमिति | चंपक-मालामालोक्य ते जनाः । आक्रोशंतिस्म सर्वेऽपि तामेव नृपवल्लमां ॥ १३ ॥ ततः कनकव. त्याख्य-द्धारो दत्तोऽनया प्रभो । इहागताय कस्मैचि-दीरायाऽतः स ईक्ष्यतां ॥ १४ ॥ श्रुत्वा कनकवत्यास्त-द्वाक्यं भूपतिसूनुना । स तथोल्लालितो हारो यथा दृष्टोऽखिलैर्जनैः ॥ १५ ॥
ततो व्यावृत्य ते सर्वे स्वं स्वं स्थानं ययुः क्षणात् । दध्यौ कनकवत्येवं सविषादा स्वचेतसि | ॥ १६ ॥ क्व गतः स कथं जातः कुमारो यो मयेक्षितः। किं मे हताशमनसः संजातः कोऽपि विभ्रमः
॥४८॥