________________
मलय
118011
498200041848084176064
द्वारं पिधाय सहसा तया दत्तं च तालकं । ददतो तालकं दृष्टा सा ताभ्यां च दुराशया ॥ ९६ ॥ कुमार्योक्तमियं मातुः सपत्नी जननी मम । नाम्ना कनकवत्यत्र सौधाधोभुवि वासिनी ॥ ९७ ॥ एतया छन्नया द्वारे स्थितया व्यतिकरः श्रुतः । वीक्षितश्चावयोः सर्वो दत्तं तेनेति तालकं ॥ ९८ ॥ तदेषा कुपिता किंचिदनर्थं चालयिष्यति । न ज्ञाता हा मयाप्येषा सपत्नी मातुरागता ॥ ९९ ॥ कुमारः | माह कामार्थ-मागच्छन् प्रार्थितोऽनया । किंतु कूटोत्तरं कृत्वा - ऽहमायातोऽत्र सुंदरि ! ॥ १००॥ मम पृष्ठे विलग्नेयं नूनं हेरितुमागता । अस्मद्व्यतिकरं दृष्ट्वा जाता कोपपरा ध्रुवं ॥ १ ॥ जल्पतावित्यभूतां तौ यावत्तावन्यवेदयत् । गत्वा कनकवत्येत-त्सविशेषं क्षमापतेः ॥ २ ॥ राजा समाययैौ तत्र ततो रोषारुणेक्षणः । हत हतेति जल्पद्भिः सुभटैर्वेष्टितो भृशं ॥ ३ ॥ कांदिशीका जगादाथ राजकन्या विमूढधीः । भविष्यसि कथं त्वं हा कुमार ! प्रवराकृते ॥ ४ ॥ धिक् पापां विषकन्यां मां या जाता क्षयकारिणी | पुण्यप्राग्भारलभ्यस्य पुंरत्नस्य तवाधुना ॥ ५ ॥ मा भैस्त्वमपि मा ध्यासी - रनिष्टं किंचनापि मे । इति जल्पन् स्वधम्मिला - त्कुमारो गुटिकामधात् ॥ ६ ॥ गुटिकायाः प्रभावेण प्रक्षि
KPK418428069
चरित्रं
118911