________________
कुमार।ते । एकं तावन्मया तुभ्य-माजन्मात्मा समर्पितः॥८५॥ लक्ष्मीपुंजमिमं हारं गृहाण त्वं * द्वितीयकं । जल्पंतीति निचिक्षेप हारं कंठेऽस्य सा निजं ॥ ८६ ॥ उवाच च मया हार-मिषादेषा
गले तव । प्रक्षिप्ता वरमाला त-वंधवोंद्वाहमातनु ॥ ८७ ॥ त्वया सार्द्धमहं पश्चा-दागमिष्यामि। सुंदर। वियोगजनितं दुःखं माभृत्कर्हिचिदावयोः॥ ८८ ॥ कुमारेण ततः प्रोचे युक्तमुक्तं त्वयाखिलं। | स्वकीयचित्तसंकल्पः साधु साधु निवेदितः ॥ ८९ ॥ परंतु जनप्रत्यक्षं पितृभ्यामिह दीयते । याव
कन्या कुलीनानां तावद्वोढुं न सांप्रतं ॥ ९०॥ मास्म ताम्यः शुभे त्वं त-न्मा भूश्चोत्सुकमानसा ।। तिष्ट निर्वृतचित्तात्र सुखेन कतिवासरान् ॥ ९१ ॥ बुद्धिं तथा तथा धास्ये यतिष्येऽहं तथा तथा । यथा दत्तां पितृभ्यां त्वां परिणेष्याम्यहं ननु ॥ ९२ ॥ विशालाक्षि प्रतिज्ञैषा मया चक्रे पुरस्तव ।। सुप्रसन्नाधुना भूत्वा त्वं मां विसृज सुंदरि!।।९३॥ तया कनकवत्या तु प्रच्छन्नं द्वारभूस्थया। तयो
र्व्यतिकरः सम्य-गेष दृष्टः श्रुतोऽपि च ॥९४ ॥ क्रुद्धा साऽचिंतयन्नूनं कोऽप्येष विप्रतार्य मां । कृतसंकेतको वीरः कुमारीपार्श्वमभ्यगात् ॥ ९५ ॥
॥४६॥