________________
मलय
चरित्रं
| तव किं नाम क्व वास्तव्योऽसि सुंदर!। कथय त्वयकाजहे मनो मे क्षिपता दृशं ॥ ४१ ॥ अहं वीरधवल-भूपतेस्तनया कनी । त्वदेकहृदया वतें नाम्ना मलयसुंदरी ॥ ४२ ॥
ईक्षांचके कुमारोऽथ कन्यां मलयसुंदरीं। निर्निमेषाक्ष एकाग्र-मानसो योगिराजवत् ॥ ४३ ॥ तयोस्तथा मिथो लग्ना देहे दृष्टिस्तथाचिरात् । जतुयुक्तेव जंबाल-कलितेवोत्पपात न ॥४४॥ लोचनान्येव जानंति संबंधं पूर्वजन्मनः । यतो हर्षे प्रिये दृष्टे वहंति वाऽप्रिये रुषं ॥ ४५ ॥ दृष्टिभ्यां दर्शिताध्वाना-वात्मानौ व्यत्यये स्थितौ । तयोः सिद्धः परपुर-प्रवेशो ध्यानतां विना ॥ ४६॥ | दृष्टी मेलयता तेना-ऽनुरागसूत्रधारिणा । तथा तो मेलितौ सम्यग् यथा संधिर्न लक्ष्यते ॥४७॥ | कुमारोऽचिंतयत्ताव-देतया ज्ञापितो निजः। विदग्धयानुरागो मे सपरिच्छदयापि हि ॥ ४९ ॥
इति ध्यायन् कुमारः स यावत्तस्थौ सुनिश्चलः । तत्रागत्य पुमानेक-स्तावत्तंप्रत्यभाषत ॥५०॥ | कुमारालं विहारेण नगर्यामेहि मंदिरं । प्रयाणमधुना येन भविष्यति पुरंप्रति ॥ ६१ ॥ अहो मनो. हरा एते प्रासादा गोपुरान्विताः । अहो वातायना रम्याश्चित्तमत्रैव मे स्थितं ॥ ५१ ॥ ब्रुवन्निति |
॥४२॥