________________
मलय
चरित्रं
४३॥
कुमारोऽथ पश्चाग्रीवं पुनः पुनः। पश्यन्नावासमानीतस्तेन पुंसा कथंचन ॥ ५२ ॥ युग्मं ॥ दध्यो । कुमार औत्सुक्यादहो मम समर्थता । आत्मानमपि यत्तस्याः प्रकाशयितुमक्षमः ॥ ५३॥ तया पृष्टो न शक्तोऽहं अपि दातुं तथोत्तरं । अहो कलासु नैपुण्यमहो विदग्धता मम ॥ ५४॥ अत्रागतो. ऽपि नाहं चेन्मिलिष्यामि तया सह । आवयोस्तत्कथं मेलः पश्चात्तापः सदा मम ॥ ५५॥ तत्संजा. ताधना रात्रिस्तिमिरेण विजंभितं । ततो यावज्जनोऽप्येष प्रयाणप्रगुणो भवेत् ॥ ५६ ॥ प्रच्छन्नस्तावदेकाको तत्र गच्छामि संप्रति । तस्या विरहखिन्नाया मिलित्वा सं ब्रवीम्यहं ॥ ५७ ॥ युग्मं ॥ ध्यात्वेति प्रगुणीभूय निःमृत्यालक्षितो निशि । कुमारी भवनाधस्तात्कुमारः प्राप सत्वरं ॥५८ ॥प्राकारं तं समुल्लंघ्य विद्युत्क्षेपानुकारिणा । किरणेनाविशद्वेगात्प्रथमा सोधभूमिकां ॥ ५९॥
वसंत्या तत्र कनकवत्या राजन्यभार्यया। अपरिच्छदयादर्शि कुमारः प्राविशन्निशि ॥ ६० ॥|| | धैर्येण कलितोऽपूर्वी दिव्यरूपः क एष ना । कथं चात्र प्रविष्टोऽयं द्वारपालेषु सत्स्वपि ॥ ६१ ॥ तन्नूनं खेचरः कोऽपि नरः सत्वाधिकोऽथवा । प्रयोजनेन केनापि हृष्टचित्तः समेत्ययं ॥ ६२ ॥ ध्या
Pur