________________
मलय
चरित्रं
॥४१॥
नखा अमी। कृता दीपा दशाऽन्याय-तमो हंतुं दिशामिव ॥३०॥ रेखास्तिस्रोऽस्य शोभंते कंठे कंबु-| समाकृतौ । मनसः स्वच्छतां दृष्टुं संप्राप्तेव त्रिमार्गगा ॥ ३१ ॥ प्रवालदलसच्छायः स्वच्छो भात्यधरो-| ऽप्ययं । मन्ये मां हृदयाद् दृष्टु-मनुरागो बहिः स्थितः ॥ ३२ ॥ कटरे सरला नासा कपोलौ | कामदर्पणौ । नेत्रे कर्णीतविश्रांते श्रवणौ स्कंधसंगतौ ॥ ३३ ॥ श्यामः केशकलापोऽस्य राजते शिरसि स्थितः । नवशावलतारुण्य-वृक्षस्येव दलोच्चयः ॥ ३४ ॥
कुमारमिति पश्यंती तं सर्वांगमनोहरं । चित्रन्यस्तेव सा याव-त्तस्थौ मलयसुंदरी ॥ ३५॥ महाबलोऽपि तां ताव-त्पश्यन वातायनस्थितांदध्यावित्यवतीर्णा किं स्वर्गाकापीयमप्सरा ॥३६॥ गाढानुरक्तया दृष्ट्या पश्यंती मां पुनः पुनः । हरत्येषा मनो मे किं परिणीताथवा कनी ॥ ३७॥ दध्यौ सापि कुमारीति क एष कस्य नंदनः । कुमारो मेऽहरच्चित्तं पश्यन् स्नेहलया दृशा ॥३८॥ उत्सुका सा ततो भूर्जे लिखित्वा श्लोकयुग्मकं । प्रच्छन्नं निजचित्तेन सार्द्ध चिक्षेप तंप्रति ॥ ३९॥ कुमारेणापि तल्लात्वा रोमांचं दधता तनौ। कुमार्या सह हर्षेण वाचितं निजचेतसि ॥४०॥ कोऽसि त्वं
॥१॥