________________
मलय
॥४०॥
बलं । क एष लक्षणोपेतः कुमारो मारविग्रहः ॥ १९ ॥ तेषामेकेन दक्षेण नरेणाभाणि हे प्रभो । स्नेहेन सममायातो ममैष लघुबांधवः ॥ २० ॥
इत्यालापे कृते पूर्व राज्ञश्चंद्रावतीपतेः तैरात्मस्वामिनः सर्वः। कार्यभारो निवेदितः ॥ २१ ॥ ते सन्मान्य ततो राज्ञा विसृष्टाः सूरपुरुषाः । निजावासमनुप्राप्ताः कुर्वाणास्तत्प्रशंसनं ॥ २२ ॥ महा. बलकुमारोऽथ बभ्रामाल्पपरिच्छदः । लोकलोचमलोलैणवागुरः पूर्दिदृक्षया ॥ २३ ॥ इतस्ततो भ्रमन् सैष स्वसौधांतिकमागतः । तया मलयसुंदर्याऽदानंग इवांगवान् ॥ २४ ॥ तत्काल-| |माहता पंचबाणबाणैः समंततः ॥ कुमारी चिंतयामास हर्षोल्लसितमानसा ॥ २५ ॥ अहो मृदुतलौ पादावशोकपल्लवारुणौ । अहो कांतिभरोऽप्यस्य नखदर्पणसंभवः ॥ २६ ।। अहो करिकराकारं जंघायुग्मं मनोहरं । रंभास्तंभोपमावूरू अहो पुंसोऽस्य सुंदरौ ॥ २७ ॥ अहो कटीतटाभोगो नाभेश्चाहो गभीरता । मुष्टिग्राह्यमहो मध्यं त्रिवलीपरिशोभितं ॥२८॥ वक्षःस्थले विशालेऽस्य धन्या कापि शयिष्यति । अतिदी! भुजादंडौ कस्याः कंठे लगिष्यतः॥२९॥ तेजोभरेण दुष्प्रेक्षा भांति पाणि- |
॥१०॥