________________
मलय
॥३९॥
ऽवयवाः सुमनोहराः । तस्या मलयसुंदर्या बभूवुर्योवनागमे ॥ ८॥
इतश्चात्रैव भरते पृथ्वीस्थाने पुरेऽभवत् । विक्रमाक्रांतभूपालः सूरपालो महीपतिः ॥ ९॥ तस्यासीन्मेदिनीभर्नु-रतिरूपानुकारिणी । पद्मावतीति दयिता सर्वांतःपुरसुंदरी ॥ १० ॥ राज्ञस्तस्य कुमारोऽभू-न्माररूपो वपुःश्रिया । महाबलोऽभिधानेन वीर्येणापि महाबलः ॥ ११ ॥ अन्यदोदारचित्तस्य कुमारस्यास्य संगतः । विद्यासिद्धः पुमानेकः स तेनावर्जितो भृशं ॥ १२ ॥ सम्यग्रूपप-| रावत-कारकास्तेन भाषिताः । पुनः स्वरूपकर्त्तारो योगा राजांगजन्मनः ॥ १३ ॥ गृहीत्वाथ कुमारेण प्रयुक्तास्ते यथाविधि । ज्ञातसत्येन सत्कृत्य विद्यासिद्धो व्यसर्जि च ॥ १४ ॥ सूरपालनृपेणाथ प्रेषितैमत्रिपूरुषैः । सार्द्ध वीरधवलस्य पावे कार्येण केनचित् ॥ १५॥ आपृच्छय पितरौ देशदर्शनाय कथंचन । कुमारोऽपि जगामैष पुरीं चद्रावती वरां ॥ १६ ॥ युग्मं ॥ प्राभृतानि पुरो मुक्त्वा । नत्वा च नृपमादरात् । उपविष्टा यथास्थानं सर्वे तेऽमात्यपुंगवाः ॥ १७ ॥ पृष्टाश्चंद्रावतीशेन कुशलं सूरभूपतेः । प्रभो राज्ये शरीरे च ते सर्वेऽप्यकथन शिवं ॥ १८॥ पप्रच्छे वीरधवलो राजा दृष्ट्वा महा
॥३९॥