________________
मलय
चरित्रं
| राज्ञी च निर्वृतौ । स्मरंतो मलयां देवीं तस्थतुस्तौ दिवानिशं ॥ ९० ॥ धात्रीभिः पंचभिनित्यं | लाल्यमाने उभे अपि । फले इवैकवृंतस्या-पत्ये ते वृद्धिमापतुः ॥ ९१ ।।
यथा यथाहसच्छ्न्य -मजल्पच्चाऽस्फुटाक्षरं । विसंस्थुलपदन्यासं चक्रेऽपत्यद्वयं च तत् ॥९२॥ | तथा तथा तयोः पित्रो-ममौ हों न मानसे । उदये रजनीजाने-नीरधेर्नीरपूरवत् ॥ ९७ ॥ लोकानां | हस्ततो हस्ते संचरंतो शिशू क्रमात् । समारूढौ वयो रम्यं सुखेनोत्तरमुत्तरं ॥ ९४ ॥ पितृभ्यां | योग्यतां ज्ञात्वा समये तत्समर्पितं । शस्त्रशास्त्रादिदक्षस्य पंडितस्य शिशुद्वयं ॥ ९५ ।। कुमारेण | कुमार्या च यथायोग्यं कलाः किल । गृहीताः स्तोककालेन पूर्वाधीताः स्मृता इव ॥ ९६ ।। अश्वेन कर्हिचित्क्रीडां कदाचित्कुंजरेण च । कदाचिदसिना चक्रे कुमारो धनुषापि च ॥ ९७ ॥ यथा यथा स चिक्रोड स्वैरमेवं तथा तथा । दुर्जनानां ध्रसत्कारः प्रमोदश्च सतां हृदि ॥ ९८ ॥ धात्री वेगवतीमुख्य-परिवारसमन्विता । उद्यानादिषु चिक्रीड कुमार्यपि यहच्छया ॥ ९९ ।। कारुण्यपुण्यहृदया मृदुमुग्धवाणी प्राणप्रिया सकलवंधुजनस्यदक्षा। बाल्योज्झिता मलयसुंदरिनामधेया सद्धर्मक- 11
॥३७॥