________________
मलय
॥३६॥
लोकरक्षार्थ द्वारे कृष्टासयो भटाः । उच्छ्रिता मंदिरेषूच्चैर्वैजयंत्यः समंततः॥ ७९ ॥ प्रमाय॑ च पथो | | चरित्रं दासाः सिषिचुः कुंकुमद्रवैः । सहकारदलैरेते बबंधुस्तोरणानि च ॥ ८०॥ राजमार्गेषु सर्वेषु त्रिकेषु । चत्वरेषु च । रत्नकांचनदानादि दापयामास भूपतिः ॥ ८१ ॥ अमुंचद् द्वेषिणो बद्धान् काराः सर्वा अशोधयत् । अमारिं घोषयामास देशेऽसौ दशवासरान् ॥ ८२ ॥
पूजयामास बिंबानि जिनानां जिनमंदिरे । लोकं चकार चादंड्यमकरं च नरेश्वरः ॥ ८३ ॥ नेदुर्दुर्दुभयो दिव्या ननृतुर्वारयोषितः । अक्षतानां च पात्राणि विशंतिस्म नृपौकसि ॥ ८४ ॥ पुष्पतांबूलवस्त्राणि महााभरणानि च । राजदत्तानि हर्षेण गृह्यतेस्म च बंदिभिः ॥ ८५॥ युग्मजन्मो| त्सवे तत्र प्रमोदेन पुरीजनः । न गेहे न च देहेऽपि ममौ क्वापि भवन्महान् ॥ ८६ ॥ सन्मान्याथ विशेषेण भोजनाच्छादनादिभिः । गोत्रवृद्धानुवाचैवं राजा द्वादशवासरे ॥ ८७ ॥ तुष्टया मलया-|
॥३६॥ देव्याऽपत्ये दत्ते उभे इमे । अस्मभ्यमनपत्येभ्यो देवानामपि दुर्लभे ॥ ८८ ॥ देवीनाम्ना भवत्वस्य नाम युग्मस्य संप्रति । कुमारो मलयाकेतुः पुत्री मलयसुंदरो ॥ ८९ ॥ दत्वा नाम्नी तयोरेवं राजा