________________
मलय
॥३५॥
1904-40**TopU***
महीपालो निजं सौधं समासदत् ॥ ६८॥ त्रिभिर्विशेषकं ॥ अथ सामंतामात्यमुख्योऽपि लोकः सर्वोऽपि हर्षवान् । विसृष्टो भूपतिं नत्वा ययौ स्वं स्वं निकेतनं ॥६९॥ कृत्वा स्नानं नृपेणाथ देवपूजां च भोजनं । सकलेऽपि पुरे तस्मिन् वर्धापनमकारि च ॥ ७० ॥ | तस्मिन्नेव दिने देवी दिव्याहारसमन्विता । गर्भ बभार सौभाग्यभाग्यसंभारशालिनी ॥ ७१ ॥ प्रवर्द्धमानगर्भस्याभिज्ञानानि यथा यथा । नृपोऽपश्यत्प्रमोदेन ममौ नांगे तथा तथा ॥ ७२ ॥ स देव्याः पूरयामास कल्पनां कल्पवृक्षवत् । कारयामास चांगस्य रक्षां दक्षो विशेषतः ॥ ७३ ॥ __अथो दिनेषु पूर्णेषु राज्ञी पुण्यमुहूर्त्तके । सुषुवे युगलं पुत्रपुत्र्यो रूपगुणाधिकं ॥ ७४ ॥ नृपं वर्धापयामास दासी वेगवती तदा । नृपोऽप्यनाशयत्तस्या दासीत्वं दानकर्मभिः ॥ ७५ ॥ अपत्या| गमहर्षेणोल्लसद्रोमा नरेश्वरः। आदिदेश दशाहानि स्पर्धावर्धापनं पुरे॥७६॥सुधाधौतानि सौधानि | पौराणां चित्रितानि च । उत्तंभितानि सौवर्णमुशलानि हलानि च ॥ ७७ ॥ जनाः प्रज्ज्वालयामासुः श्रेण्यां कांचनदीपकान् । द्वारेषु स्थापयामासुः सौवर्णान् कलशांस्तथा ।। ७८ ॥ स्थापिता
BLE-14864