________________
मलय
॥३४॥
004944009960989160908
कुलस्य कुशलं तत्वात्पुत्रं देवी यदर्थिता । उपाद्रवन्नयं भूतो वारितस्तद्वरं ततः ॥ ५८ ॥ आधारस्तीत्रदुःखानामपहारोऽपि ते प्रिये । उग्रौषधनयेनैष बभूव शुभहेतवे ॥ ५९ ॥ काष्टफाल्यौ नृपेणाथाऽमोच्येतां ते उभे अपि । भट्टारिकागृहे गोलानदीतीरविभूषणे ॥ ६० ॥ अत्रांतरे नरेंद्रस्य कालज्ञापनहेतवे । गंभीरोद्दामशब्देन पेठे वृत्तं सुबंदिना ॥ ६१ ॥ हेलोत्तीर्णविपद्भरार्णवजलः प्राप्तोलसद्भाः प्रियः । स्वैरं विश्रमया धराधरशिरश्चके प्रतापं निजं ॥ तन्वानः सुपथो विकासिकमलामोदै| जगत्प्रीणयन् । सर्वस्योपरि वर्त्तते रविरयं देवाधुना त्वं यथा ॥ ६२ ॥ ततः सुबुद्धिना राजा विज्ञ देव सांप्रतं । संप्राप्तवांछिता यूयं पुरे गच्छत जैमितुं ॥ ६३ ॥ क्षुधापीडितगात्रापि देवीशक्ता न जल्पितुं । विस्मारयतु तद्दुःखं पूर्वं स्नानाशनादिभिः ॥ ६४ ॥ प्रतिदेवीं क्षिपन् राजा दृष्टिं स्नेहेन निर्भरां । गजारूढः प्रियायुक्तश्चचाल भवनंप्रति ॥ ६५ ॥ वाद्यमानेषु वाद्येषु पूरितांबरकुक्षिषु । पठत्सु बंदिवृंदेषु जय जीवेति मंगलं ॥ ६६ ॥ कृतासु हट्टशोभासु तत्कालं नागरैर्जनैः । निराकृत्य शुचं हर्षे सर्वतः परिसर्पति ।। ६७ || लोकानामाशिषः शृण्वन् गृह्णन्मंगलकानि च । देव्या सा
ભીજવાય
D&D ff ++
चरित्रं
॥३४॥