________________
मलय॥३३॥
1-1-69* 4820001688112908
शुभे शीलं येन रक्षामि तेऽधुना । जल्पत्येति तदा क्षिप्ता फालीमध्येऽहमेतया ॥ ४७ ॥ काष्टफाली द्वितीया च दत्ता मंक्षु ममोपरि । न जानेऽतः परं किंचिद्गर्भावास इव स्थिता ॥ ४८ ॥ अधुनात्र मया दृष्टा यूयं प्राक्पुण्ययोगतः । युष्माकं कथितः स्वामिन् वृत्तांतोऽयं निज्ञोऽखिलः ॥ ४९ ॥ नृपेणाभाणि देवि त्वं पतिता हा महापदि । प्राणत्यागः समारब्धो मयापि विरहे तव ॥ ५० ॥ ज्वलच्चिताप्रवेशं मे दृष्ट्वा लोकोऽपि दुःखितः । तेनैष मिलितः सर्वो गोलानद्यास्तटेऽधुना ॥ ५१ ॥ मंत्री सुबुद्धिरूचेऽथ सपत्नीशंकया तथा । देवी चंपकमालैषा निक्षिप्ता काष्टसंपुटे ॥ ५२ ॥ काष्टसंपुटमेतच्च बध्ध्वालं रज्जुबंधनैः । नगोत्तरन्नदीवाहे खेचर्यात्र प्रवाहितं ॥ ५३ ॥ जीवघातेन नैवास्याः सा विद्या किल सिध्यति । तेनैव न हता देवी खेचर्यैवं प्रवाहिता ॥ ५४ ॥ अस्माकं पुण्यवत्कष्टं तरद्दूरात्तदागतं । दृष्टमादायि चास्माभिर्लब्धा देव्यप्यतर्किता ॥ ५५ ॥
यद्यपूर्वयामांते युष्माकं मिलिता प्रिया । सत्यं देवीवचो जातं सप्तयामांतसंगमात् ॥ ५६ ॥ नृपो जगाद न ज्ञाता माया भूतस्य केनचित् । अहो राज्यक्षयं कर्त्तुं प्रवृत्तस्यातिमायिनः ॥ ५७ ॥
180600108910894000844
चरित्रं
॥३३॥