________________
मलय- शुभे त्वां नगरी चंद्रावती भूयो नयाम्यहं । साधयिष्यामि विद्यां किंत्विदानीमिह पर्वते ॥ ३६॥
साधयामि न चेद्विद्यामधुना तन्न सिध्यति । तदुःखे पतितायाः कमुपकारं करोमि ते ॥ ३७॥ ॥३२॥
एष एवोपकारस्ते ममास्तु कमलेक्षणे । यदत्र क्षणमात्रेण प्रियो मम समेष्यति ॥ ३८॥ स्त्रीलोलः स पुनश्चेत्त्वामीनपामिहेक्षिता । करिष्यति ततो भायां शीलं ते खंडयिष्यति ॥ ३९ ॥ भविष्यति सपत्नीजं दुःखं मेऽपि सुदुस्सहं । तदेहि त्वं द्रुतं येन भवेत्सर्व सुसूत्रितं ॥ ४० ॥ जल्पंतीति वह- | स्तेन गृहीत्वा मां नभश्चरी । आसन्नायास्तरंगिण्या वहंत्यास्तीरमन्वगात् ॥४१॥ मयाध्यायि किमेषा मां हनिष्यत्यथवा किम । उदबत्स्यतीह वृक्षाग्रे किंवा क्षेप्स्यति कंदरे॥४२॥ किंवा नदीप्रवाहेत्र वाहयिष्यति वेद्मि न । किंवाथ चिंतया भूरिदुःखे दुःखमदुःखकृत् ॥ ४३ ॥ तत्राभूत्पतितं शुष्कं स्थूलं काष्टं स्वभावतः । विद्याशक्त्या ततश्चोर्द्धं तद् द्वेधा विहितं तया ॥ ४४ ॥
ते मध्ये शुषिरे कृत्वा दले द्वे पुरुषप्रमे । गोशीर्षचंदनेनाहं सर्वांगमन्वलिप्सि च ॥ ४५ ॥ all कर्पूरागुरुकस्तूरोप्रमुखैर्गंधवस्तुभिः । समलंकृत्य खेचर्या तयाभाणीति मांप्रति ॥ ४६॥ एहि त्वं हे
॥३२॥