________________
मलय
॥ ३१ ॥
क
99% 1897 18380848460418400-110010801
त्वानुरक्ता ॥ २४ ॥ ततो मया पुनः पृष्टा सा देवी नरनायक । क्व गतो देवि! भूतः स येनाहं मंदिराहृता ॥ २५ ॥ देव्युवाच ततो मुक्त्वा शुभे त्वामिह पर्वते । चंद्रावत्यां पुनः पुर्यां ययौ वेगेन सोऽमरः ॥ २६ ॥ त्वत्स्थाने च विकृत्याथ त्वदंगसदृशं शवं । तस्थौ तत्रैव भूतः स प्रच्छन्नः पापचेष्टितः ॥ २७ ॥ ततोऽकस्मादजीवां त्वां विलोक्य स्वासुवत्प्रियां । यदुःखमन्वभूद्राजा तज्जानाति स एव हि ॥ २८ ॥ युष्मद्दुःखे श्रुते प्राणसंशयेऽपृच्छि सा मया । किं जीविष्यति भूपालो मिलिष्यति कदा मम ॥ २९ ॥ | तयावादि शुभे ! सप्तप्रहरांते नृपस्तव । अपि दुस्सहदुःखार्त्तः पुनर्जीवन् मिलिष्यति ॥ २० ॥ पृच्छाम्यहं पुनर्यात्किं मे राजा मिलिष्यति । एका विद्याधरी तावत्सचेटी नभसायियो ॥ ३१ ॥ इतश्च मम पश्यंत्या एव देवी तिरोदधे । एकाकिन्याः समीपे मे प्राप विद्याधरी तु सा ॥ ३२ ॥ विस्मिता खेचरी स्माह ममालोक्य तदैकिकां । दिव्यरूपा शुभे कासि शून्ये त्वमिह पर्वते ॥ ३३ ॥ ततः स्वकीयो वृत्तांतो मया तस्या निवेदितः । तया च भणितं हा हा विजृंभितमहो विधेः ॥ ३४ ॥ यदेषा भूपतेः कांता सुरूपा कुलसंभवा । हा हा निर्मानुषे शैले पतिता कलिता गुणैः ॥ ३५ ॥
****
चरित्रं
* ॥ ३१ ॥