________________
1.
मलय
| तदत्र कथ्यते सम्यग ज्ञानरत्नं विवेकिभिः ॥ १६ ॥ तृतीयं लोचनं ज्ञान-मदृष्टार्थप्रकाशनं । द्वि| तीयं च रवेबिवं दृष्टेतरतमोऽपहं ॥१७॥ ज्ञानं निष्कारणो बंधु-र्ज्ञानं यानं भवांबुधो । ज्ञानं प्रस्ख
लतां दृष्टि-निं दीपस्तमोभरे ।। १८॥ ज्ञानादुधियते जंतुः पतितोऽपि महापदि । एकश्लोकार्थबोधेन | यथा मलय सुंदरी ॥ १९ ॥ तथाहि-द्वीपेषु मध्यमो जंबू-द्रोपोऽस्तीह महीतले। राकेंदुरिव यो वृत्तो लवणोदधिनावृतः ॥ २० लक्षयोजनमानस्य लक्षणं तस्य वेत्ति कः। सप्तवर्षोऽपि षड्वर्ष-धरो यः कथितो बुधैः ॥ २१ ॥ तस्यांतर्भरतं क्षेत्रं ख्यातमक्षीणसंपदा | षट्खंडमप्यखंडं यत् साध्यते चक्र वर्तिना ॥ २२ ॥
अस्तीह भरतक्षेत्रे नाम्ना चंद्रावती पुरी। अन्यायो हन्यते यस्यां न्याय एव विज़ुभते ॥ २३ ॥ भूरीश्वरगृहा भालि प्रभृतधनदाश्रिता । याष्टापदांकरत्नौका अपूर्वेवालकापुरी ॥ २४ ॥ भद्रशाला| वृता भास्व-च्छोभायुक्ताढ्यनंदना । मेरुवद्या सुवर्णश्रीः शोभते विबुधाश्रिता ॥२५॥ यस्यां स्फटिकहाणि भित्तिस्वच्छतयाभितः । गुप्तभावान् विवृण्वंति मित्राणीव परस्परं ॥ २६ ॥ नक्षत्रदर्शना
स्फा