________________
मलय
चरित्रं
॥
४
॥
द्रात्रि-र्यस्यां पुर्यनुमीयते । ध्वांते मणिगृहैर्ध्वस्ते दिनं चार्कविलोकनात् ॥ २७ ॥श्रीवीरधवलस्तत्र मित्रतुल्योऽभवन्ननृपः । संचक्राह्रादको नित्यं दीप्यमानकरः पुनः ॥ २८ ॥ यस्य चापे नमत्कोटौ प्रणेमू रिपुमोलयः। त्यक्तजीवैः पुनर्वागे-निर्जीवा द्वेषिणोऽभवन् ॥ २९ ॥ कोकिलेव प्रियालापा नंदतोंदुकलेव या। गंगेव स्वच्छहृदया कमलेव जनप्रिया ॥ ३०॥ रतिरूपाधिकरूपा शीलालंकार| धारिणी । प्रिया चंपकमालास्य । सा सर्वांतःपुरीवरा ॥ ३१ ॥ द्वितीयापि प्रिया तस्य नाम्ना कनकवत्यभूत् । सौभाग्यभारादिवैषो-न्नतांगी कुचभारतः ॥ ३२ ॥ ताभ्यामिव रतिप्रीति-भ्यामभ्यासमुपेयुषः । कामस्येव ययौ कालो । भूपालस्य सुखैः कियान् ॥ ३३ ॥
अथान्यदा नृपं दृष्ट्वा विच्छायं चिंतया मुखे। संभ्रांतयाशु पप्रच्छे देव्या चंपकमालया ॥३४॥ | राजा जगाद सोद्वेगं चिंताहेतुं प्रिये शृणु। अत्रैवास्मत्पुरे द्वौ स्तो बांधवौ श्रेष्टिपुंगवो ॥३५॥ अन्यो
न्यं स्नेहलौ लोभा-नंदिलोभाकराभिधी । कुर्वाणी हद्दवाणिज्यं तौ दिनानि व्यतीयतुः ॥ ३६॥ गुणवर्माभिधो लोभा-करस्यास्ति सुतो गुणी । लोभानंदो पुनढूंढ-भूरिभार्योऽप्यनंदनः ॥३७॥
।
॥४
॥