________________
मलय.
चरित्रं
॥२९॥
धान् स वधोपायांश्चिंतयन् राज्यकाम्यया । भूपस्य घातकीमूय प्रविष्टो मंदिरेऽन्यदा ॥ २॥ सोऽ| मुंचन्नृपतेर्घातं वंचयित्वा नृपोऽपि तं । घातंतमेकघातेन पातयामास भूतले ॥३॥ अंतेऽसो
शुभभावेन मृत्वोत्पन्नोऽत्र कानने । प्रचंडो मे परीवारे भृत्योऽपश्यद्गतं भवं ॥ ४॥ स्मृत्वा तदा| त्मनो वैरं नरनाथस्य पृष्टतः । छलं गवेषयन्नेष परिबभ्राम सर्वतः॥५॥ | न शशाक पुनः किंचित्कर्तुं राज्ञः सुकर्मणः। ततोऽसौ चिंतयामास पापिष्टो दुष्टचेतसि ॥६॥ | देव्यां चंपकमालायां प्रेमबंधो नरेशितुः। स कोऽपि दृश्यते वीरधवलस्यापरे न यः ॥७॥ मरणेन | ततो देव्या म्रियतेऽवश्यमप्ययं । एषापि न मया हंतुं शक्यते पुण्यपेशला ॥८॥छन्नो भूत्वा छलं पश्यन्नपहा मनास्ततः । बभ्राम पृष्टतो लग्नो दुष्टो भूतः स सुंदरि ।। ९॥ अथैका भुवने सुप्ता निद्राणा तेन सुंदरि । अपहृत्यात्र मुक्ता त्वं शैले मलयनामनि ॥ १० ॥ ततस्त्वमागतेदानीं भवने मिलितात्र मे । तुभ्यं ददामि किं ब्रूहि सफलो मेऽस्तु संगमः॥ ११ ॥ ततोऽभाणि मया देवी यदि तुष्टासि देवि मे । ततोऽपत्यविहीनायाः प्रसीदापत्यदा भव ॥ १२ ॥ ततश्चोत्सुकचित्तेन नृपेणा
॥२९॥