________________
मलय
॥ २८ ॥
2004-2016129081830014
1
उद्वंधयाम्यहं स्वं किं झंपामद्रेर्ददामि किं । स्वयं चेद्भिद्यते हृच्च ततो दुःखाच्छुटाम्यहं ॥ ९१ ॥ इति ध्यायेत्यहं यावत्प्रस्वलंती पदे पदे । गता स्तोकभुवं तावदद्राक्षं जिनमंदिरं ॥ ९२ ॥ त्रिभिर्विशेषकं ॥ गत्वा तत्र मयाथैवं संस्तुतो वृषभः प्रभुः । अंधकारे यथा दीपो मरौ पद्माकरो यथा ॥ ९३ ॥ अवृक्षाद्रो यथा कल्पवृक्षः पोतो यथांबुधौ । तथा पुण्यैर्मयाप्तोऽसि छिंधि दुःखानि मे प्रभो ॥ ९४ ॥ युग्मं ॥ एवं विज्ञपयंत्या मे पार्श्वे नारी कुतश्चन | एका दिव्या समागत्य वक्तुमेवं प्रचक्रमे ॥ ९५ ॥ विलोक्य जिनभक्तिं ते दुःखभारं च सुंदरि । प्रकटास्म्यादिनाथस्य शासनस्याधिदेवता ॥ ९६ ॥ एतस्यादिजिनेंद्रस्य भवनिस्तारकस्य वै । वसंती भवने रक्षां कुर्वे चक्रेश्वरीत्यहं ॥ ९७ ॥ | मलयाद्रौ ममेतस्मिन् भवनं तेन वर्त्तते । मलयेति द्वितीयं मे नाम लोके प्रसिद्धिभाक् ॥ ९८ ॥ तद्धीरा भव मा भैस्त्वं धीरयंत्यैति मयेत्यथ । साधर्मिकीति पाणिभ्यां दत्तं वंदनमादरात् ॥ ९९ ॥ ततो देव मया पृष्टा सा देवी केन हेतुना । समानीता च केनाहं किं मिलिष्यामि बंधुभिः ॥ ३०० ॥ ऊचे चक्रेश्वरी देवी शुभे बंधुः प्रियस्य ते । वीरपालाभिधो वीरधवलस्याऽभवत्पुरा ॥ १ ॥ विवि
÷÷÷¶*******<>*<*B + ¶ B D £ GB
चरित्रं
॥ २८ ॥