________________
मलय
॥२७॥
प्रवाहिता ॥ ७९ ॥ देवी जगाद यद्येवं यात यूयमिहाखिलाः। निकटस्थवटस्यास्य मूले छायातिशी- | तले ॥ ८० ॥ राजाथ हृष्टहृदयो गत्वां सों जनोऽपि च । छायायां वटवृक्षस्य स्वे स्वे स्थान उपाविशत ॥ ८१ ॥ ततो देवी निजं वृत्तं प्रारेभे गदितं तदा । समाकर्णयतैकाग्रा ययमित्युक्तिपूर्वकं ॥ ८२॥ देव त्वमपि जानासि स्फुरितं दक्षिणाक्षि मे। तेनाशुभनिमित्तेन नाभूत्कुत्रापि मे रतिः | ॥ ८३ ॥ भ्रामं भ्रामं बनायेषु निर्विण्णा सौधमागता। ततो वेगवती दासी पत्रार्थ प्रेषिता मया ॥ ८४ ॥ निद्रया घूर्णमानाक्षी यावत्पल्यंकमाश्रिता । निद्राणा केनचित्तावदुत्क्षिप्ताहं दुरात्मना
५॥ नीत्वा तेन विमुक्ताहं शून्ये पर्वतमूर्द्धनि। स्वयं पलायितः क्वापि स दुष्टो निष्ठुरः पुनः ।।८६॥ | कांदिशीका ततो भीतिकंपमानतनूरहं । दिशः सर्वाः प्रपश्यंती शिलातल्पात्समुत्थिता ॥ ८७ ॥
पुरः कमपि नापश्यं न पृष्टे नापि पार्श्वयोः । शुश्राव केवलं शब्दान् सिंहव्याघ्रादिदेहिनां ॥ ८८ ॥ क्व गच्छामि क्व तिष्टामि चिंतयंतीति चेतसि । कृत्वाथ साहसं वेगात्प्रस्थितैकां दिशंप्रति ॥ ८९॥ कुत्र सा नगरी रम्या क्व स मे प्राणवल्लभः। अपजद्वेऽहमेतेन किमकारणवैरिणा॥९॥
_123Teani
॥२७॥