________________
मलय
॥२६॥
*40*46964644082230689
गत्वा राजनरा यावदपश्यन् शिबिकां ततः । संघर्षयत् करौ तावद्वंचितोऽस्मीति च ब्रुवन् ॥ ६९ ॥ दंतैर्दैतान् भृशं पिंष-दुद्ययौ तच्छवं दिवि । पश्यतां विस्मयेनोच्चैर्लोकानां विकसद्दशां ॥ ७० ॥ युग्मं ॥ ततस्ते कंपमानांगा भयेनागत्य भूपतेः । स्खलगिरा गढ़तिस्म सर्वमुत्सुकचेतसः ॥ ७१ ॥ नरेश्वरो जगादाथ विस्मयानंदपूरितः । वेत्ति व्यतिकरस्यास्य परमार्थ न कश्चन ॥ ७२ ॥ अस्तु तावत्परं सर्वं देव्येवेहानुयुज्यते । इत्युदित्वा नृपेणोचे स्वं वृत्तांतं वद प्रिये ॥ ७३ ॥ अपनिद्रा ततो देवी दृशं चिक्षेप भूपतौ । सस्नेहं मिलितेवेयं हर्षाद्वर्षशताय ॥ ७४ ॥ गलद्दाष्पा मिलदेवीदृष्टी राज्ञो दृशा सह । तयोस्तदा स कोऽप्यासीद्वर्षोऽयं वित्त एव तौ ॥ ७५ ॥ देवी पप्रच्छ हे देव यूयं नद्यास्तटे किमु । गलज्जलानि वस्त्राणि युष्माभिः प्रावृतानि किं ॥ ७६ ॥
किमत्र मिलितो लोकः स्वामिन् किं रचिता चिता । शबस्य शिबिकेषा किं मृतः किं कोऽपि मे वद ॥ ७७ ॥ राजा जगाद निःशेषमिदं वक्ष्यामि देवि ते । किंतु त्वं निजवृत्तांतं पूर्वमाख्याहि नः स्फुटं ॥ ७८ ॥ क्व गता क्व स्थिता काष्ठे प्रविष्टा घुणवत्कथं । हारलाभः कथं नद्याः कथं वाहे
101-2014*1896699
चरित्रं
॥२६॥