________________
मलय
॥ २२ ॥
37*480*
2001-2008-08-2006-08-2008-1
॥ २४ ॥ विना युष्मांस्तथा देव वयं पुण्यविवर्जिताः । दीना रुलंतो भूपीठे भविष्यामः कथं कथं ॥ १५ ॥ तत्प्रसीद विमुंचामुं मोहमाधेहि धीरतां । परिणामममुं त्यत्क्वा स्वामिन् राज्यं चिरं कुरु | ॥ २६ ॥ मास्म गृह्णन् द्विषो राज्यं रुलन्मास्म प्रजाप्यसौ । माभृद्वरा निराधारा निर्नाथाभूम मा वयं ॥ २७ ॥ यक्ष्यंति यदि धीरत्वं स्वामिन् युष्मादृशा अपि । निराधारमिदं कुत्र स्थास्यत्यत्र समादिश || २८ ॥ यद्देवी विगतप्राणा तप्राणा जाता तत्रापि कारणं । कर्मणां हि परीणामः संसारासारता तथा ॥ २९ ॥ यतः - राजानः खेचरेंद्राश्च केशवाश्चक्रवर्त्तिनः । देवेंद्रा वीतरागाश्च मुच्यंते नैव कर्मणः ॥ ३० ॥ तन्नाथ कर्ममाहात्म्यं जानतां भवतामिह । युज्यते नेदृशं कर्त्तुं सर्वथा सुविवेकिनां ॥ ३१ ॥ जगादाथ प्रजानाथः शोकसंपूर्णमानसः । अहो मंत्री श्वराः सर्व-मवगच्छाम्यहं पुनः ॥३२॥ देव्याः स्नेहेन मूढात्मा युक्तायुक्तं न वेद्म्यहं । अन्यच्चांगीकृतो मृत्यु - स्तया सार्द्धं मया तदा ॥ ३३ ॥ अकुर्वन् सुकरं चापि स्वजिह्वाजल्पितं वचः । असत्यवादिनां मध्ये रेखां पूर्वां स्पृशाम्यहं ॥ ३४ ॥ दिनानीति नो जातं ममाजन्म वचोऽन्यथा । म्रियेऽहं नो यदीदानीं तन्मे यात्यमृषावतं
fest #+******
चरित्रं
॥२२॥