________________
मलय
॥२१॥
| ।। १३॥ एते सर्वेऽपि संजाता उपाया निष्फलास्त्वयि । केनोपायेन हा देवि नीरोगा त्वं भविष्यसि | ॥१४॥ अप्येतैरुपचारैस्त्वं कालेनैतावतापि चेत् । न षे तद्गता नूनं मुक्त्वा मामिह वल्लभं ॥१५॥ दिवसेन समा यस्य त्वांविना घटिकापि मे। दिवसो मासवत्सोऽहं भविष्यामि प्रिये कथं ॥ १६ ॥ धिग्से राज्यमिदं सर्वं धिक् शक्तिं धिक् च कोशलं । यदेषा रक्षिता नैव तदापद्विदतापि हि ॥१७॥ | त्यत्क्वा मां क्व गता देवि ममैतत्कथयैकशः । येन तत्रैत्य ते वीक्ष्य मुखं तृप्तो भवाम्यहं ॥ १८ ॥ | जल्पन्निति पुनर्मूर्छा-मतुच्छां प्राप दुःखितः । शीतोपचारैरुत्तस्था-वुवाचैवं च मंत्रिणः ॥ १९ ॥ | अहो मंत्रीश्वरा यूयं शृणुतेकं वचो मम । युष्माभिर्जीविता नैव देवी तावत्कथंचन ॥ २० ॥ तन्नून| मिह मर्तव्यं समं देव्या मयाधुना । प्राणा ममोडयिष्यते यदस्या विरहे स्वयं ॥ २१ ॥ धितां | कारयताहाय काप्टैगोलानदीतटे । देवीवियोगदग्धोऽहं यद्भवाम्यत्र निर्वृतः ॥२२॥ आहुः स्ममंत्रिणो नेत्र-जलक्लिन्नमहीतलाः। हाहाहा देवासहसा वयं याता रसातलं ॥ २३ ॥
अस्तं गते यथा सूर्ये भवंति कमलाकराः । पित्रोश्च मरणे बाला मत्स्या वा सलिलं विना