________________
मलय
॥२०॥
1300101001001
1
ततोऽमृतच्छटासिक्त इव सर्वांगमुच्छ्वसन् । इति स्माह प्रजापालो विकस्वरविलोचनः ॥ ३ ॥ भो भो धावत सर्वेऽपि शीघ्रमानयतौषधं । विषहंतॄन् मणींश्चापि निमंत्रयत मांत्रिकान् ॥ ४ ॥ राजादे - शेन मिलिता सामग्री सकला ततः । सुबुद्धिशिक्षितैमैक्षु प्रारेभे मांत्रिकैः क्रिया ॥ ५ ॥ स्थापयित्वा रहो देवीं मंत्रिणो मांत्रिकैस्तथा । चिकित्सां कारयामासुर्यथा राज्ञेति चिंतितं ॥ ६ ॥ उत्थास्यत्यधुना देवो दृष्टिमुन्मीलयिष्यति । इदानीं वक्ष्यति श्वासो वलिष्यत्यधुनी पुनः ॥ ७ ॥ इति ध्यायति भूपाले दिनार्द्धं तन्निशापि सा । कथं कथंचित्कष्टेन धीसखैरतिवाहिता ॥ ८ ॥ प्रभाते सचिवाः सर्वे निरुपाया जगुर्मिथः । निषेत्स्यतेऽधुना भूमा - नस्माभिर्मरणात्कथं ॥ ९ ॥ देवीस्नेहनिबद्धोऽयं मरिष्यति नरेश्वरः । स्नेहस्याऽकृत्रिमस्यास्ति न काप्यन्या गतिर्यतः ॥ १० ॥ राज्यं राष्ट्रं च कोशच चतुरंगा चमूरपि । वयं लोकाश्च निर्नाथा भविष्यामः कथं हा ॥ ११ ॥ इति चिंताब्धिनिर्मग्ना - स्तस्थुः सर्वेऽपि मंत्रिणः । कांदिशीकाः समं शाखा - भ्रष्टाः शाखामृगा इव ॥ १२ ॥ दष्वा राजापि निश्चेष्टां पूर्ववन्निजवल्लभां । रुद्ध कंठोऽतिदुःखेन विललाप सगद्गदं
*10081309190806480
चरित्रं
॥२०॥