________________
मलय
सहसाऽतुच्छ-मूर्जाच्छादितचेतनः। भूपो भूमीतले भ्रांत-नयनः स्नेहवत्सलः ॥९२॥ उन्मीलिताक्षियुगलः सिक्तः शीतलवारिणा । उत्तस्थौ तदवस्थां तां देवीं दृष्ट्वा मुमूर्छ च ॥ ९३ ॥ मूर्छातः पुनरुत्तस्थौ मुमूर्छ पुनरेव हि । उत्तस्थौ च पुनस्ताव-द्राजावस्थामिमां श्रितः ॥ ९४ ॥ सचिवास्तावदेक्षंत देव्यास्तत्सकलं वपुः । किंतु क्वापि न तेऽपश्यन् दंष्ट्राघातव्रणादिकं ॥ ९५ ॥
अन्योऽन्यं मंत्रयामासुः सर्वे संभूय ते रहः । अक्षतांगी महादेवी किंतु प्राणा गता ननु ॥१६॥ तत्किं हृदयदुःखेन किं वा दैवेन वैरिणा । देव्याः प्राणा हृता अंग-मन्यथा कथमक्षतं ॥ ९७ ॥ |मरिष्यति नृपो नूनं देवीस्नेहेन मोहितः। राज्यभ्रंशस्ततो भावी नास्ति राज्यधरो यतः ॥ ९८ ॥ ऊचे सुबुद्धिनामात्याः क्रियते काललंघनं । येन कालविलंबेन कोऽप्युपायः स्फुरेत्पुनः ॥ ९९ ॥ अन्यो मंत्री जगादाथ कालक्षेपः कथं पुनः। सबद्धिः स्माह राज्ञोऽस्य कथ्यते विषविक्रिया॥२००। जीवत्यद्यापि देवीयं नाभिपद्मस्थितासु का । क्रियते विषनाशोऽस्या मणिमंत्रोषधादिभिः ॥ १ ॥
मंत्रयित्वेति ते सर्वे स्तुवंतो मतिवैभवं । सर्वमावेदयामासु- पालस्यैत्य तत्तथा ॥ २ ॥
॥१९॥