________________
मलय
NNA भरतारशी
॥१८॥
कृप दैवाहं प्रथमं किं न मारितः । देव्यमंगलवृत्तांतं नाश्रोष्यं येन कंचन ॥ ८१ ॥ अरे दैव त्वयात्मा मे-ऽर्द्धछिन्नो विहितः कथं । पश्चार्द्धमपि तद्विद्धि पल्लीपुच्छमिवा स्फुरत् ॥ ८२ ॥ हा दैवावगमे देवि दक्षे दक्षिणचक्षुषः । स्फुरणेन त्वयाख्यायि मृत्युनों रक्षिता मया ॥ ८३ ॥ अज्ञानोऽहं | महापापो बुद्धिलेशोऽपि नास्ति मे । एवमेव स्थितो यस्माद्-ज्ञात्वापि विपदं तव ॥८४॥ स्वं निंद| निति सिंचंश्च भूपीठं नेत्रवारिभिः । राजा परिजनं सर्व दुःखयामास तं सदा ॥ ८५॥ पपात पुन| रुत्तस्थौ क्षणं तस्थौ क्षणं ययौ । शून्यमालोकयामास विललाप नृपः क्षणं ॥ ८६ ॥ संभूय सचिवाः | सर्वे दुःखभारेण भंगुराः । नृपं विज्ञपयामासु- शं गद्गदया गिरा ॥ ८७ ॥
शीघ्रं चलत हे स्वामिन् गत्वा तत्र विलोक्यते । देव्याश्चंपकमालायाः कावस्था कीदृशी पुनः ॥८८ । न ज्ञायते कदाप्येषा नाभिसंस्थितजीविता। हालाहलादिभावेन गत श्वासापि जायते ॥ ८९॥ इत्युक्तो मंत्रिभी राजा प्रस्खलच्चरणांबुजः । परिवारपरीतोऽगा-देव्यावासनिकेतनं ॥९॥ ददर्शासौ प्रियां तत्र निश्चेष्टां काष्टवन्नृपः। अब्रुवाणामकुर्वाणां सर्वथा वपुषः क्रियां ॥ ९१ ॥ पपात
॥१८॥