________________
मलय.
चरित्र
॥१७॥
चकितो हृदि ॥ ७० ॥ हा देवी देववशत-स्तवाभूत्किममंगलं । संजातं सफलं किं नु स्फुरितं दक्षिणेक्षणं ॥ ७१ ॥
हले वेगवति ब्रूहि विलंब सहते न हृत् । देव्याश्चंपकमालाया बभूव किमु सांप्रतं ॥ ७२ ॥ रुदती वेगवत्याह धोर वीर शिरोमणे । द्वौ कर्णो हृदयं चापि कुर्यास्त्वं विज्ञ कर्कशं ॥ ७३ ॥ दारयंतो सतां हृदि स्निग्धानि मधुराणि च । अतुच्छागच्छति स्वेच्छा वजोशनिरियं प्रभो ॥ ७४ ॥ ईक्षणे दक्षिणे स्वामिन् प्रस्फुरत्यधिकाधिकं । सौधे वने पुरे बाह्ये लेभे देवी न शं क्कचित् ॥७॥ मध्यंदिने समागत्य शय्यायां सुप्तया तया । अपरिच्छदया देव्या पत्रार्थ प्रेषिता त्वहं ॥७६॥ पत्रा| ण्यादाय तत्पावे प्राप्ता यावदहं पुनः । तावत्काष्टमिवाचेष्टा देवी सा ददृशे मया ॥ ७७॥ न जानेऽहं परं किंचि-देव्याः प्राणाः कथं गताः। किं रोगेण विषेणाथ किं दःखेनात्मयत्यया ॥७॥
इदं दंभोलिपाताभं हालाहलसमं वचः । शृण्वन्नतुच्छमूच्र्योऽगाद्भपीटं भूमिवल्लभः ॥ ७९ ॥ | वीजितः शीतलैर्वातैः संसिक्तश्चंदनद्रवैः । गतमूर्छः समुत्तस्थौ भूपतिर्विलपन्निति ॥ ८० ॥ रे रे नि
॥७॥