________________
मलय
॥ १६ ॥
1.
36499818300146960818200818280888
नूनं । कोऽपि भृतग्रहो मम । विद्युत्पातोऽथवा किंवा सर्वखापहृतिः क्षणात् ॥ ६० ।। रोगातंकोऽथवा कोऽपि किंवापत्प्राणसंशया । भविष्यति ततः क्वापि । संपद्यते न मे रतिः ॥ ६१ ॥ युग्मं ॥ राजा जगाद मा भैस्त्वं मा कार्षीरधृतिं हृदि । आशंकिष्टा विरूपं मां स्फुरत्यंगमिदं यदि ॥ ६२ ॥ तथा च पालयत्यत्र मयि राज्यं कुतस्तव । भीशंकाप्युदिते सूर्ये । तमोलेशोऽपि न प्रिये 1 ॥ ६३ ॥ कथंचिद्यदि किंचित्ते भविष्यत्यशुभं प्रिये । त्वया सह ममाप्यग्नि - शरणं द्राक् पतंगवत् ॥ ६४ ॥ इति संस्थाप्य देवीं तां भयभ्रांतविलोचनां । सिंहासनोपविष्टः सन् । राजा कार्यरतोऽभवत् ॥ ६५ ॥ यथा यथाऽस्फुरन्नेत्रं दक्षिणं सा तथा तथा । सौधे वने पुरे बाह्ये देवी नाप रतिं क्वचित् ॥ ६६ ॥ मध्याह्ने यावदागत्य पल्यंके क्षणमस्वपीत् । किंचित् किंचित्तदा निद्रा - सुखं सेवितुमा हता ॥ ६७ ॥ इतश्च तस्यां वेलायां ताडयंती शिरः करैः । चेटी वेगवती नाम्नी संप्राप्ता राजसन्निधौ || ६८ ॥ सा जगादाश्रुधाराभिः क्षालयंती निजं मुखं । देव्याश्चंपकमालाया देव ! जानामि नापि किं ॥ ६९ ॥ इत्यर्द्धकथिते राजा श्रुत्वा देव्याः किमप्यदः । दृष्ट्वा चेटीं च शोकार्त्ती जगाद
4940861048-1009
चरित्रं
॥१६॥