________________
मलय
॥९९९॥
00120010064
पुण्यपापैकदर्पणः ॥ ७२ ॥ शिष्यः श्रीपार्श्वनाथस्य नाम्ना चंद्रयशा गुरुः । बहुसाधुपरीवारो बोधको निर्वृते जिने ॥ ७३ ॥ युग्मं ॥
सकुटुंबावुभौ भूपौ तौ विज्ञाततदागमौ । जग्मतुर्वेदितुं सूरिं सर्वपौरजनान्वितौ ॥ ७४ ॥ केवली कथयामास धर्मे भवनिवारकं । ततः प्रस्तावमासाद्य पृष्टं सूरेण भृभुजा ॥ ७५ ॥ भगवन्! सागरस्यांतः पतितापि झषोपरि । सुखेनोत्तारिता तेन कथं मलयसुंदरी ॥ ७६ ॥ गुरुरूचे विपद्यास्या धात्री वेगवती नृप । कुध्यानादंबुधेर्मध्ये करिरूपो झषोऽभवत् ॥ ७७ ॥ भारंडास्यात्ततः स्रस्ता तदा मलयसुंदरी । पत्युच्चैर्नमस्कारं तस्यैवोपरि सापतत् ॥ ७८ ॥ नमस्कारं निशम्येहापोहं तस्य वितन्वतः । | मत्स्यस्याजनि पूर्वस्या जातेर्ज्ञानं विधेर्वशात् ॥ ७९ ॥ वालयित्वा ततो ग्रीवां यावत्पृष्टमभीक्षितं । तेनोपलक्षिता तावत् सुता मलयसुंदरी ॥ ८० ॥ सुताया हंत जाताऽस्या दुःस्थावस्था किमीदृशी । किं करोम्यसमर्थोऽहं सर्वोपकृतिकर्मसु ॥ ८१ ॥ तद्वसंतीं भुवं नीत्वा मुंचाम्येतामतो बहिः । पुनयदि मिलत्येषा कथंचिद्वंधुभिः सह ॥ ८२ ॥ चितयित्वेति मत्स्येन तेनानीय सुखं सुखं । विमुक्तैषा
1001+09899
चरित्रं
॥ १९९॥