________________
मलय
॥१९८॥
16061698411004184606
तेनोचे सकुटुंबाय मे यदि । जीवितं यच्छत स्वामिस्तदा पुत्रं समर्पये ॥ ६१ ॥ हृष्टचित्तैस्ततः सर्वेर्वचने तस्य मानिते | गुप्तस्थानात्कुतोऽप्याशु तेनानीतः स बालकः ॥ ६२ ॥ सर्वे तं बालमालोक्यानंदिताः सहसाऽभवन् । प्रावृषेण्यं मयूरौघा घनाघनमिवोन्नतं ॥ ६३ ॥ राज्ञोचे बलसारः स कुमारस्यास्ति नाम किं । उक्तं तेन महाराज बल इत्यभिधां व्यधां ॥ ६४ ॥ इतश्चांके घृतो राज्ञा सूरपालेन सोऽगृहीत् । दीनारैकशतग्रंथिं पितामहकरस्थितां ॥ ६५ ॥ पितामहेन तन्नाम तस्य चालयता तदा । समक्षं सर्वलोकानां चक्रे शतबलाभिधा ॥ ६६ ॥ तस्य सर्वस्वमादाय जीवन्मुक्तः स सार्थपः । सकुटुंबः कृतं भूपैरेतैरात्मीयभाषितं ॥ ६७ ॥ सूरपालो जगादाथ किंचित्समधिकं किल फ् वर्षं वियोगभाजोऽद्य वत्सायास्तद्दिनादभृत् ॥ ६८ ॥ वर्षांते सह कांतेन नूनं मलयसुंदरी । मिलिष्यतीति तद्ज्ञानिवचनं मिलितं पुनः ॥ ६९ ॥ सिद्धराजेन तत्सर्वं राज्यं निजभुजार्जितं । सूरपानरेंद्रा जनकाय समर्पितं ॥ ७० ॥ मिथः स्नेहेन तो यावत्सकुटुंबावुभावपि । राजानौ राजका र्याणि कुर्वाणो तत्र तस्थतुः ॥ ७१ ॥ तावत्तत्र समायातो विहरन् भुवि केवली । भवांतर कृतप्राणि
801041
चरित्रं
॥१९८॥