________________
चरित्रं
मलय ॥१२७
मलयसुंदर्या कुमारेणापि मूलतः ॥ ५० ॥ ईक्षेऽहो महादुःखे पतिता पुत्रिका मम । जाता राज- कुलेऽप्येषा रुलिता रोरवत्पुनः ॥ ५१ ॥ हा वत्से स्वच्छहृदये। कोमले कुसुमादपि । सोढानि तीव्र| दुःखानि त्वयामृनि कथं कथं ॥ ५२ ॥ बहुप्रकारमित्यादि शोचयंतः पुनः पुनः । अंगं मलयसुंदर्याः | | पित्राद्याः पाणिनाऽस्पृशन् ॥ ५३॥ सूरपालो जगादाथ वत्सेऽस्मिन् व्यसनार्णवे । प्रक्षिप्ता हि मयैव त्वमविचारेण पापिना ॥ ५४॥
तत्क्षतव्यं त्वया सर्व सुप्रसन्ना भवाधुना । जितकोपा त्वमेवासि ज्ञाततत्वा त्वमेव हि ॥५५॥ तवापूर्वा कृपा वत्स! साहसं च मतिस्तथा । जनानुरागः शोर्यं च धैर्य च सुकृतान्यपि ॥ ५६॥ है इत्यादि बहुधा पुत्रं प्रशंसंतो महाबलं । पप्रच्छः पितृमुख्यास्ते वत्स वत्सासुतः क्व सः॥ ५७ ।।
गृहीत्वा तेन पापेन वणिजा स कथं कृतः। पुत्रः स्माह स एवात्र जनैरानाय्य पृच्छयते ॥ ५८॥ आनाय्य बलसारोऽथ दृढं निगडितः पदोः । भणिती दुर्मतेऽस्मभ्यमपराद्धं बहु त्वया ॥ ५९ ॥ ततो यद्भवतो युक्तं विधातुं तद्विधास्यते । परं तावद्वदामाकं कथं पुनः कृतस्त्वया ॥६०॥ ततो भीतेन
*
॥१९७