________________
मलय
॥१९६॥
20099838984360649
सुचिरादहं । सुकृतेन मिलन्नस्मि विषादो वां ततः कथं ॥ ३९ ॥ युग्मं ॥ इति विज्ञातखार्था सर्वे राजसैनिकाः । प्रमोदमेदुरखांता बभूवुस्तत्क्षणादपि ॥ ४० ॥ अहो विधेः प्रसन्नत्वमहो पुण्यानि नोऽधुना । यत्प्रियासहितो वत्सो मिलिष्यति महाबलः ॥ ४९ ॥ निर्गता नरकादय वयमधैव जीविताः । अस्माकमद्य चैतन्यमद्य चोन्मीलिता दृशः ॥ ४२ ॥ जल्पन्निति समं वोरधवलेन महोभुजा । सूरपालो महाराजोऽभिययौ तं महाबलं ।। ४३ || सिद्धराजोऽपि संवीक्ष्यागच्छंतौ तौ गुरू ततः । जगामाभिमुखं मंक्षु निःसोमविनयान्वितः ॥ ४४ ॥ त्रयोऽपि मिलितास्तेऽथ वैरिभावे गतेऽखिले । अंतरस्थे ते बंधे प्रवाहाः पयसामिव ॥ ४५ ॥ मिथः प्रकाशितः स्नेहो बाष्पाविलविलोचनैः । तैः स कोऽपि न यो वक्तुं शक्यते निपुणैरपि ॥ ४६ ॥ ततस्तौ सिद्धराजेन निजद्रंग प्रवेशितौ । नृपौ स्वस्वपरीवारयुतौ नीतौ नृपालयं ॥ ४७ ॥ रुदती दुःखसंस्मृत्या राज्ञी मलयसुंदरी । बहुधालापिता तत्र श्वसुरप्रमुखैर्जनैः ॥ ४८ ॥ कारिताः सिद्धराजेन भोजनादिक्रियास्ततः । ते सर्वे निर्वृता जाता जनकश्वसुरादयः ॥ ४९ ॥ पृष्टे पित्रादिभिः सर्वो वृत्तांतः कथितस्ततः । खः खो
चरित्रं
॥१९६॥