________________
मलय
॥१९५॥
2011-20171129081549-60
त्वयेत्युक्त्वामरस्य च । शरोऽकारि करे लेखोऽपि पूर्व लिखितः स्वयं ॥ २८ ॥ युग्मं ॥ ततस्तेन शरो मुक्तो मुखे लेखं दधद् द्रुतं । नरेंद्रान्नामयन्मोहं जनानां जनयन् ययौ ॥ २९ ॥ इत्थमायांतमालोक्य तं भूपालावुभावपि । चित्ते चमत्कृतो पृथ्वीस्थान चंद्रावतीपती ॥ ३० ॥ अवतीर्य नभोमार्गात्स शरोऽवततार च । प्रदक्षिणात्रयं सूरपालाख्यं परितो नृपं ॥ ३१ ॥ पुनः पुनः प्रणम्योच्चै - नृपपादौ विमुच्य च । लेखं तत्र स पत्र्यागात्सिद्धराजकरं पुनः ॥ ३२ ॥ चरितं तस्य बाणस्य दृष्ट्वा सर्वेऽपि विस्मिताः । इत्यूचुर्ज्ञायते नैव परमार्थोऽस्य कश्चन ॥ ३३ ॥ सुरपालो गृहीत्वाशु लेखं तं निजपाणिना । छोटयित्वाऽक्षरश्रेणिं वीक्षांचक्रे पुनः पुनः ॥ ३४ ॥ परितो मिलिताः सर्वे लेखार्थ श्रोतुमुत्सुकाः । तूष्णीकां सैनिकाचकुः स्वयं राजा त्ववाचयत् ॥ ३५ ॥ स्वस्ति श्रीमति राजेंद्र सूरपालाजिभूतले । पूज्यान् श्रीसूरपालस्य तातस्यांहिसरोरुहान् ॥ ३६ ॥ श्रीवीरधवलस्यापि श्वसुरस्य विशेषतः । महाबलः प्रणम्यास्मात्सैन्याद्विज्ञपयत्यदः ॥ ३७ ॥ युग्मं ॥ युष्मत्प्रसादतोऽत्रैव प्राप्तराज्यपरिग्रहः । दर्शितात्मीयदोदंडवीर्यः पूज्यमनो मुद्दे ॥ ३८ ॥ अकुंठोत्कंठया तातपादानां
३६६६
चरित्रं
॥ १९५॥