________________
मलय ॥२००
तटेंभोधेर्यन्नास्त्यस्य गतिः पुरः ॥ ८३ ॥ वालयित्वा ततो ग्रीवां पश्यन्नेतां पुनःपुनः । खिद्यमानो भृशं मत्स्यः सागरांतः स यातवान् ॥ ८४ ॥ अथ निष्पापमाहारं गृह्णन् ध्यातनमस्कृतिः। पूरयित्वा च मत्स्यायुः सुगति स गमिष्यति ॥ ८५॥
श्रुत्वेति वेगवत्यास्ते सर्वे तत्र भवांतरं । इत्यूचुर्विदधे स्नेहो जननीसदृशस्तया ॥ ८६॥ पुनः l पप्रच्छ भूपालो भगवन्!पूर्वजन्मनि । किं किं मलयसुंदर्या तद्भ; च विनिर्ममे ॥ ८७॥ यदुःखा-1
नीदृशान्याभ्यां द्वाभ्यामाप्तानि यौवने । गुरुरूचे महीनाथ सावधानैर्निशम्यतां ॥ ८८॥ तवैव नगरे। all पृथ्वीस्थाने गृहपतिः पुरा । प्रियमित्राभिधो जज्ञे समृद्धः पुत्रवर्जितः ॥ ८९ ॥ तस्य तिस्रः प्रिया रुद्रा भद्रा च प्रियसुंदरी । रुद्रा भद्रा तु सोदयें अभृतां स्नेहले मिथः ॥ ९० ।। तयोरपि स्नेहलेशोऽपि दयितस्य न । एकस्यामेव सुंदर्या प्रेमास्यासीदकृत्रिमं ॥ ९१ ॥ ततस्ताभ्यां महाराटी न निवृत्ता कदाचन । द्वयोरपि तयोस्तत्र सुंदरीप्रियमित्रयोः ॥ ९२ ॥ प्रियमित्रस्य मित्रं तु नाम्नाभू- न्मदनः प्रियं । स पुनः सुंदरीलुब्धो नर्म चक्रे तया सह ॥ ९३ ॥ अथान्यदा सुरूपां तां रहःस्थां
॥२००८