________________
मलय.
परिक
॥१८२॥
___ ततो यावत्वहस्तेन तेनाथ फलवांछया । द्वारमुद्घाटितं तस्य खस्याऽपुण्यनिधेरिव ॥ ८४ ॥ तावत्कृतांतधाटीव त्राप्तयंती जनं द्रुतं । वज्रानलमहाज्वाला तन्मध्यादुत्थिता पुरः ॥ ८५॥ दग्धः पतंगवदुष्टस्तया वज्राग्निकीलया। सहसा सचिवः सैष जीवौ निर्जीवतामगात् ॥८६॥ लग्नः काष्टेषु सौधस्य दग्धुं प्रारब्धपावकः । ततो भीतेन सिद्धः स नृपेणाकारितो द्रुतं ॥ ८७॥ मद्गृह्मण | सुरेणात्र कृतं किंचिद्भविष्यति । चिंतयन्निति सिद्धः स समागाद्राजसन्निधौ ।। ८८॥ उदित्वा सर्वमेतस्मै राज्ञाऽवादि प्रसद्य भोः । सिद्धास्मास कृपां कृत्वाऽदः शांतिं नय विडवरं ॥ ८९॥ भविष्यति कथं शांतिरिति चिंतयतामुना । सिद्धेनाक्षेपि तत्रांबु शांतोऽग्निः सर्वथा ततः॥ ९० ॥ पिहितोऽथ | | करंडः स क्षेमेणास्थात्तथैव च । तस्यासन्ने परं कोऽपि भीत्या नास्थात्कथंचन ॥ ९१ ॥ अथोराव्य | करंडं तं स सिद्धः सात्विकाग्रणीः । ततः क्षेमेण जग्राह सहकारफलोत्करं ॥ ९२ ॥ वहस्तेनार्पयामास राज्ञे विस्मितचेतसे । अन्येभ्योऽपि परं राजा नाग्रहीत्तानि भोतितः ॥ ९३ ॥ धीरयित्वाथ | सिद्धेन ग्राहितस्तानि भूपतिः। महामात्यपदे तस्याऽतिष्टिपज्ज्येष्टनंदनं ॥ ९४ ॥ नृपः पप्रच्छ हे
॥१८E