________________
मलय
॥१८॥
यदा कदापि दुःसाध्यं किंचित्ते स्यात्प्रयोजनं । तदाहं स्मृतमात्रोऽपि करिष्यामि सहायता | ॥ ७३ ॥ इत्युक्त्वा तेन चानीय कुतोऽप्येकः करंडकः। गृहीतैश्शूततस्तस्मात्कलैराम्रफलैर्भूतः ॥७४॥ गृहीत्वाथ करंडं तं मां चागानगराइहिः । स देवोऽवददेवं च प्रति मां तत्र संस्थितः ॥७५॥ कुमारनं करंडं त्वं नीत्वार्पय महोपतेः । समेष्यामि त्वया सार्द्धमहमंतर्हितः पुनः ।। ७६ ।। तत्र प्राप्तस्य यद्यन्मे भविष्यत्युचितं पुनः। तत्तत्सर्वं करिष्यामि तस्य प्रच्छन्नसंस्थितिः॥ ७७॥ मयानीय करंडः स ततो राज्ञे समर्पितः। अनुज्ञाप्य च भूपालमहं पश्चादिहागमं ॥७८॥ ततस्तस्य करंडस्य मध्यादच्छलितः किल । नृपं खादाम्यमात्यं वा पुनः पुनरिति स्वरः ॥ ७९ ॥ सिद्धोऽयं निश्चितं कोऽपि गूढात्मा सिद्ध एव यत् । दुष्कराण्यपि कार्याणि करोतीशि लीलया ।। ८० ॥ तदत्र फलदंभेन नूनमेषा विभीषिका । काप्यानीयामुना मुक्ताऽत्रास्माकं क्षयकारिणो ॥ ८१ ॥ जल्पंतमिति तं भूपं चकितं सचिवो हसन् । विभीषिकामुखे धूलिस्तदोच्चैः कथयन्निति ॥ ८२ ॥ अहंयुर्वार्यमाणोऽपि यावतस्यांतिकं ययौ । तावच्छुश्राव तं शब्द स मृत्योर्दुदुभेरिव ।। ८३ ॥ युग्मं ॥
॥१८१॥