________________
मलय.
॥१८॥
संयुक्ताः पित्तं शाम्यंतु सर्वथा ॥ ६१ ॥ भीताः सर्वेऽपि मौनेन यावत्तस्थु पादयः । तावदुद्घाटयांचक्रे सिद्धेनाम्रकरंडकः ॥ ६२ ॥ द्वित्राण्यादाय चूतानि भूपमापृच्छ्य चागमत् । पावें मलय सुंदर्या दुःखिताया नृपात्मजः ॥ ६३ ॥ ततोऽसौ हृष्टहृदया मयूरीव धनागमे । प्रतिपत्तिं विधायोच्चेः पप्रच्छोदंतमेतकं ॥ ६४ ॥ स स्माह वल्लभे! पूर्व यो योगी वह्निकुंडके । दग्धः परिचितो मे स मृत्वात्र | व्यंतरोऽभवत् ॥ ६५ ॥ स चूते निवसत्यत्र भागधेयेन नौ प्रिये । प्रजल्पन्निपतंश्चापि तेनाहमुपल| क्षितः॥ ६६ ।। स्वकराभ्यां ततस्तेन धृतोऽहं चपलं पतन् । उक्तश्चोपकृतेः कर्त्ता मा भैस्त्वं नृपनंदन! X॥ ६७ ॥ आत्मीयः कथितस्तेन वृत्तांतः स्वो मयापि च । इति संलपतो रात्रिय॑तीयायावयोर्द्वयोः ।
॥६८ ॥ व्यंतरेण ततस्तेनाभाणि त्वं भो भवातिथिः । कुमारेष्टातिथे किं किं तवातिथ्यं करोम्यहं ॥ ६९ ॥ मयोचे कार्यसंसिध्ध्या कंदर्पस्य नरेशितुः । निर्मूढार्गर्यथाहं स्यां विधेहि त्वं तथा सुर! ॥ ७० ॥ ततोऽभाणि सुरेणैष नृपतिस्त्वां जिघांसति । शिक्षयाम्यहमेनं तद्यदि ते संमतं भवेत् |॥७१॥ मयोक्तमियताप्येष विरुद्धव्यसनाद्यदि । न निवर्त्यति तत्सर्वमपि तस्य विधास्यते ॥७२॥
॥१८॥