________________
मलय-
चरित्रं
॥१७७॥
यदा । सुरंगया द्रुतं तस्मादंधकूपाद्भयंकरात् ॥ २७ ॥ सुरंगाया मुखे तस्या गुर्वी विरचिता चिता। प्रविष्टे मयि तन्मध्यं यदा प्रज्वालितोऽनलः ॥ २८ ॥ सुरंगायास्तदा द्वारमुद्घाटयेतः प्रविश्य च। पुनर्विधाय तद्द्वारं तथैवाहं स्थितोतरा ॥ २९ ॥ ____ ज्वलन् ज्वलन् चितावहौ निर्वाणे द्वारमादरात् । उद्घाट्याहं च निर्गत्य क्षेमेणात्र समागम
३०॥ इदं गुह्यं त्वया कांते प्रकाश्यं नैव कस्यचित् । येनैव भूपतिर्दुष्टो मम छिद्राणि पश्यति । ॥३१॥ अत्रांतरे समागत्य नृपेणाभाणि सिद्ध भोः। अद्यमां भोजयात्मीयां भार्यां मलयसुंदरीं ॥३२॥ कथयित्वा ततस्तेन दयिता भोजिता निजा। पश्चादुक्तं मया राजंस्तव कार्यमसाध्यत ॥३३॥ तन्मां प्रहिणु गच्छामि भार्यामादाय संप्रति । सिध्यतात्प्रतिपन्नं ते माऽनेशत्सूनृतं व्रतं ॥ ३४॥ नृपेण प्रेषिता दृष्टिर्जीवामात्यस्य संमुखं । क्षणं विमृश्य मंत्री स ततो लग्नः प्रजल्पितुं॥३५॥ अहो | सिद्ध त्वया तावत्कृतमेकं प्रयोजनं । द्वितीयं चापि भूपस्य कुरु सत्वमहोदधे ॥ ३६ ॥ पुरस्यास्यैव नेदिष्टे छिन्नटंकाभिते गिरौ। चूतवृक्षः समस्त्यस्य प्रस्थमारोह्यमुच्चकैः ॥३७॥ उपरिष्टात्तस्य चूतस्य |
॥१७७॥