________________
मलय.
चरित्रं
॥१७८॥
देया झंपा ततस्त्वया। फलान्यादाय दातव्या पुन.पा भुवंप्रति ॥३९॥ पश्चादत्र समागत्य फलान्येतानि भूभजे । अर्पणीयानि येनास्य पित्तपीडोपशाम्यति ॥ ४०॥ ततो दध्यौ कुमारोऽयं क्षुद्रादेशोऽतिदुष्करः । मर्त्तव्यं हि मया तत्र बुद्धिः कापि न विद्यते ॥ ४१ ॥ कार्येऽस्मिन्नकृतेऽनाप्तभार्योहं मृत एव तत् । द्वाभ्यामपि प्रकाराभ्यामथ मृत्युः स्थितं मम ॥ ४२ ॥ कुतोऽपि चेद्विधिवशारक्षुद्रादेशं करोम्यमुं । तज्जीवितं कलत्रं च द्वयमप्यस्ति मेऽधुना ॥ ४३ ॥ ध्यात्वेत्युवाच हे मंत्रिन्। राजकार्य करोम्यदः । इति ब्रुवन् कुमारो द्रागुत्तस्थावासनाद् द्रुतं ॥४४॥ पतत्सु दुःखपूरेण दयितानयनाश्रुषु । कुमारश्छिन्नटंकाख्यं प्रतस्थे तं गिरिप्रति ॥ ४५ ॥ यथायथाद्रिमारोहत्कुमारः स तथा | तथा । लोकानां हृदये शोको हर्षश्चामात्यभूभुजोः॥ ४६ ॥ पर्वताग्रं स आरुढ उदयादिमिवार्यमा। ततो नृपनरैस्तस्य दूरे चूतः स दर्शितः ॥४७॥ न्यायस्थितेन यत्किंचिन्मयास्ति शुभमर्जितं। ततस्तस्य प्रभावेण सफलं मेऽस्तु साहसं ॥ ४८ ॥ इति जल्पन रसालं तं लक्ष्यीकृत्य स साहसी। झंपासंपातमातेने लोकहाहारवे सति ॥ ४९ ॥ पतन् वेगेन शृंगात्स क्षणेनागाददृश्यतां । कुमाराऽहि
॥१७८०