________________
मलय
च
॥१७५॥
भाणि नृपेणेषा न गृह्णात्यपि नाम मे । वीक्षते संमुखं नैव जीवत्यस्मिन्नरे तथा ॥ ५॥ ममेमां तु विना बालामात्मा तिष्टति नो सुखं । पतितः संकटेऽमुष्मिन् भवामि तदहं कथं ॥६॥ । ततो जीवाभिधानेन मंत्रिणाभाणि निर्दयं । अहो किंचिन्न वक्तव्यं वराको म्रियतामयं ॥७॥ नरेश्वरोऽपि मंत्री च महापापावुभाविमौ । महिलामात्रकार्येण नररत्नं हतो यतः ॥८॥ कुरुतोऽन
र्थमेतौ यदुर्मती क्षारदंभतः। क्षार एवानयोर्मूर्ध्नि निश्चितं तद्भविष्यति ॥ ९॥ इत्यन्योऽन्यं ब्रुवाणः । * स लोकः स्वस्थानमीयिवान् । कुमारोऽपोष्टदेवानां चकार स्मरणं क्षणं ॥ १० ॥ हाहारवेण लोकानां * साई सुभटवेष्टितः । कुमारः काष्टनिचितां प्रतस्थेऽथ चितांप्रति ॥ ११ ॥ लोकानां हृदये शोकः । | कुमारश्च चितांतरा । प्रविष्टो निर्गतश्चाशु तेषामश्रुभरस्तदा ॥ १२ ॥ प्रज्ज्वालितो नृपायुक्तेः समं-1 ताज्ज्वलनो नरेः । सार्द्ध समस्तलोकानामंगेष्वसुखवहिना ॥ १३ ॥ प्रशशंस जनस्तस्य धीरत्वं ज्वलितेऽनले । सीत्कारमात्रमप्युच्चैरशृण्वन् भूपजन्मनः ॥ १४ ॥ अथ निर्वलितप्राये ज्वलने ॥१७५४ राजपूरुषाः । स्वामिने कथयामासुर्यथाविहितमात्मनः ॥ १५ ॥ तस्यां रात्रौ नृपं मुक्त्वा जोवामात्यं
*
*
*