________________
मलय.
॥१७॥
येनेतस्य कुमारस्य पुंरत्नस्य महौजसः । सर्वत्राप्यहमेवात्र जातानर्थस्य हेतवे ॥ ९४ ॥ पुरा नाथ त्वमुत्तीर्णः सदैवापन्महार्णवात् । एतस्यामापदीदानों पुनः स्थास्यसि हा कथं ॥ ९५ ।। धृत्वा राज| भटैः क्षिप्तश्चिताकाष्टेषु वल्लभ ।। प्रज्वालितेऽनले विष्वक् निर्यास्यसि कथं ततः ॥ ९६ ॥ जीवन्नेव चितावह्वेमध्ये प्रज्वलितः प्रिय । सर्वांगदाहपीडा त्वं सहिष्यसि कथं कथं ॥९७ ॥ एतस्त्वं किमिह
स्वामिन् ममाथ मिलितः कथं । त्वयात्रैत्याहिना दष्टा पापाहं जीविता च किं ॥ ९८॥ बहुप्रकारमि- | * त्यादि खिद्यमानाक्षिवारिभिः । दयिताय प्रयच्छंती जलांजलिमनारतं ॥ ९९ ॥ यदि दृक्ष्यामि भर्तारं ।। * करिष्ये भोजनं ततः । इति निश्चित्य सा तस्थौ सर्वचेष्टाविवर्जिता ॥ ३०० ॥ युग्मं ॥ | कुमारेणापि धोरेण संवीक्ष्येतस्ततो भुवं । गुर्वी विरचयांचवे स्थाने चात्रेप्सिते चितां ॥१॥ दृष्ट्वा तस्य कुमारस्य साहसं नागरो जनः। संभूयागत्य चात्यंतं दूनो भूपं व्यजिज्ञपत् ॥ २॥ न्यायोऽयं कियदेषोऽत्र देव रक्षामिषात्त्वया । हन्यते पशुवत्सिद्धः परोपकृतिकर्मठः ॥ ३ ॥ ततो | वरमिमां बालामस्मै मा दास्म कर्हिचित् । एनं तथापि जीवंतं मुंच नो वचसा प्रभो ॥४॥ ततो.
॥१७॥