________________
मलय
चरित्र
॥१७३॥
लक्षणैर्यादृक् ताहकोऽपि नरो यदि । लभ्यते दह्यते चापि निक्षिप्यांतश्चितं ततः ॥ ८३ ॥ रक्षा
तस्याश्चिताया हि हरेत्पीडां शिरःस्थितां । त्वया संपादितं तन्मे भवत्वेव महोषधं ॥ ८४ ॥ नूनं * मलयसुंदयाँ लुब्धोऽयं मां जिघांसति । प्रागेव याचितोऽनेन क्षुद्रादेशानहं ततः ॥ ८५ ॥ ततोऽय-1 | मकृते कायें भार्या मे नार्पयिष्यति । कार्य पुनर्विना मृत्युं कर्तुं शक्यं न केनचित् ।। ८६ ॥ इति | ध्यात्वा चिरं तेन समालंब्य च साहसं । ऊचे नरेंद्राचिंतेयं कर्तव्या कापि न त्वया ॥ ८७॥ मया संपाद्यमेतत्तेऽप्यतिदुर्लभमौषधं । समर्प्य मे परं भायों राज्यं कुर्याश्चिरं पटुः ॥ ८८ ॥ मिथ्या विहस्य सोऽवोचच्चित्ते दुष्टो नृपस्ततः । महोपकारिणे सिद्ध दातव्या ते प्रिया मया ॥ ८९॥ तयोः प्राहरिकान्मुक्त्वा जायापत्योः पृथक् पृथक् । हृष्टचित्तः स पापिष्टः क्षमापोऽगानिजमंदिरं ॥ ९० ॥ प्रास्थापयत्कुमारोऽथ श्मशाने काष्टसंचयान् । लोकोऽप्यूचे मुधा हा हा नररत्नं विनंक्ष्यति ॥९१ ॥ विहितांतिमशृंगारो वेष्टितो राजपूरुषैः । दिनस्य पश्चिमे यामे श्मशानं प्राप भूपभूः ॥ ९२ ॥ ज्ञात्वा | | व्यतिकरं लोकादूचे मलयसुंदरी । धिग् धिग् मे जन्म धिक् चेदं सौंदर्य वपुषोऽखिलं ॥ ९३ ॥
19.