________________
॥१७॥
मलय- इतः कुमारेण राजा यातो विलोक्य तां । उपविष्टां प्रजल्पंती प्रमोदविवशोऽभवत् ॥ ७२ ॥ उवाच
च शिरो धुन्वन् कटरे शक्तिरस्य यत् । सुखेन सार्द्धमस्माकमस्याः प्रादायि जीवितं ॥ ७३ ॥ तव किं नाम मो ब्रूहि पृष्टे राज्ञेति राजसूः। तस्मै सिद्ध इति स्वीयनामधेयमचीकथत् ॥ ७४ ॥ कल्ये. पीयं न भुक्तास्ति किंचिहाला ततोऽधुना । जेमयोचितमेतां त्वमित्युवाच महीपतिः ॥ ७५॥
शर्कराक्षोदसंयुक्तमानाय्य क्वथितं पयः । कुमारेण स्वहस्तेन यथेष्टं पायिताथ सा ॥ ७६ ॥ * कुमारेण नृपः प्रोचे गृहीत्वैनां ब्रजाम्यहं । मां प्रेषय निजं चोक्तं कुरु त्वं सत्यवागसि ॥ ७७ ॥
रविवन्मेघवन्नीरराशिवच्च नरेश्वरः । नातिकामति मर्यादामन्यथेषा हता प्रजा ।। ७८ ॥ अप्युक्तं | पुरलोकेनार्पयेमामस्य बालिकां । तवास्तु भाषितं सत्यं मिलतां दुःखिताविमौ ॥ ७९ ॥ इत्यादि. |बोधितो गूढकोपवह्निः शमीव सः । क्षणं तुष्णि क्षणं चक्रे वार्ता अन्याश्च भूपतिः ॥ ८०॥ अपृच्छ
चैष हे सिद्धातवैषा भवतीह किं । स स्माह गृहिणी देवाद्वियुक्ता मिलिताधुना ॥ ८१ ॥ अथोचे भूपतिः साधो!कुकं मे प्रयोजनं । तथाहि मे शिरो नैव तुदत्तिष्टति कर्हिचित् ॥ ८२ ॥ ततस्त्वं
|॥१७२०