________________
मलय-
॥१७१॥
ध्वांतेऽप्यहं तथैवानुव्रजन्नास्फालितोऽश्मनि । ततः पादप्रहारेणाहतालं सा शिला मया ॥ ६१ ॥ | द्वारमुद्घटितं तस्मानिर्गतेन मया बहिः । गर्भवासादिव प्राप्तं पुनर्जन्मेति चिंतितं ॥६२ ॥ किंचिद्विश्वासमायातः पश्यन्नहिपदं भुवि । गंतुं लग्नः प्रिये सावधानचित्तोऽहमग्रतः ॥ ६३ ॥ कियद्गतेन दृष्टोऽहिः शिलाकुंडलितो मया । वशीकृतस्य मंत्रेण तस्यात्तश्च शिरोमणिः ॥ ६४ ॥ गिरिनद्यां सुरंगात्र यदेषा पितृकानने। चौरस्थानं तदेतद्धिः स परं तस्करो मृतः ॥ ६५ ।। ध्यायतेति पुनार सुरंगाया गतेन तत् । पिधाय शिलया मुक्तं तथैव मयका प्रिये ॥ ६६ ॥ जानन्नप्यात्मनोऽनर्थ नृपाते विरहं पुनः । अत्यर्थमक्षमः सोढुं प्रस्थितोऽहं पुरंप्रति ॥ ६७ ॥ । आगां चात्र पुरे यावत्तावत् श्रुत्वा च डिंडिमं । मामिवाकारयंतं त्वां सजीकर्तुं विषाकुलां ॥६॥ पृष्ट्वा ज्ञात्वा च वृत्तांतं लोकाते डिंडिमो धृतः। मणिनानेन सर्पस्य मया त्वं सज्जिता प्रिये|| ६९॥ मयैषोऽपि नृपो वाक्यसंकटे पातितोऽस्ति यत् । कर्तव्या न त्वया काचिदनिवृत्तिस्ततः प्रिये॥७॥ | निःसंदेहमयं त्वां मे वितरिष्यति वल्लभे॥ सुधासिकेव संजज्ञे ततोऽसौ निर्वृता भृशं ॥७१ ॥ अथा
84%86-%84*-*RRExpr******
॥१७१॥